एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 95 [तृतीयविधिः] वांशादि तिथि[१५]लब्धयुतं जीवा जीवान्तराहतं भक्तम् ।
तिथ्या [१५] कलादिलब्धं जीवायुक्त गुणो वा स्यात्। ६० ॥
[ चतुर्थविधिः]
भागाद्यष्टि[१६]गुणं वा तिथि[१५]भक्त मौर्विका विशेषहतात् । ज्याविवरात्तद्भक्ताल्लव्धयुतात् मौर्विकाप्येवम् ॥ ६१ ॥
[पञ्चमविधिः] कृत[४]संगुणिता लिप्तास्तिथिवर्ग[२२५]हृताः फलं गुणः शेषात् ॥ ज्यान्तरहताद्विभक्तात्तत्वयमै[२२५]र्लब्धयुग्गुणो जीवा ॥ ६२ ॥ [भुक्ताभुक्तज्यान्तरप्रयोगेण इष्टज्यासाधनम्]
[ प्रथमविधिः] भुक्ताभुक्तज्यान्तरदल-विकलवधात् स्वचापलब्धोना ।
युक्ता क्रमोत्क्रमज्या भुक्ता गुणकः फलं च लब्धघ्नम् ॥ ६३ ॥ Text of Ms. A : [60] वंशादि तिथिलब्दयुतं जीवा जीवान्तराहतं भक्तं | षष्टया कलादिलव्दं जीवायुक्त गुणो वा स्पात् ।
[61] भागाद्यष्टिगणं वा तिथिभत्कं मौर्विंका विशेषहत्तात् ज्याविचारात्तद्भतालव्दयुक्ता मौर्विंकाप्पेवं । [62] कृत्तसंगुणिताल्लिप्तास्तिथिवर्गहृताः फलं गुणः शेषात् । ज्यातरहिताद्विभत्कात्तत्त्वयमैर्लव्दयु णा जीवा । [63] भुक्ताभुक्तज्पांतरदलविकलवधात्स्वचाषलव्द्योना
युक्ता क्रमोत्क्रमज्पा भुता गुणक: फल च लव्दौ वं। Ms. B: 60 a °लब्दघुतं 60 c °लब्दं 61 c ज्याविवरा° 61 d °लव्दद्युता•