पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/130

एतत् पृष्ठम् परिष्कृतम् अस्ति

2. स्वोच्चनीचग्रहस्फुटीकरणविधिः [भौमगुरुशनीना स्फुटीकरणम्] प्राग्वन्मन्दफलं खगाच्छकलितं मध्ये तदूनाच्चलाच्छैघ्रार्धं च मृदुस्फुटे धनमृणं केन्द्रेऽजञ्जूकादिके ॥

तस्मान्मन्दफलं ग्रहादविकलं मध्ये तदूनात्पुनस्तद्वच्छीघ्रफलं च तत्र खचरे कृत्स्नं स्फुटोऽसौ भवेत् ॥ १ ॥

[बुधशुक्रयोः स्फुटीकरणम्]

ग्रहोनात्स्वचलात्कृत्स्नं फलं शैघ्रं ज्ञशुक्रयोः ॥
मान्दं चैव स्वमन्दोनात्सकलं मध्यमाद् ग्रहात् ॥ २ ॥

[ शीघ्रकर्णमन्दकर्णसाधनविधयः] अग्राफलत्रिगुणयोविवरैक्यमुक्ततं केन्द्रे कुलीरमकरादिगतेऽत्र कोटिः ॥ तद्वर्गबाहुफलवर्गयुतेः पदं स्यात्कर्णो भुजाफलहतत्रिगुणस्य हारः ॥ ३ ॥ Text of Ms. A : [1] प्राग्वन्मंदफलं खगाश्छकलितं मध्पे तदूनाक्चला श्छेघ्रार्धं च मृदुस्फुटं धभसृणं केंद्रजजूकाधिके । तस्मान्मंदफलं ग्रहादविकलं मध्पे तदूना पुनस्तद्वियुक्छीघ्रफलं च तत्र खचरे कृत्स्नं स्फुटोसौ भवेत् ॥ । [2] ग्रहोनात्स्ववलात्कृत्स्नं फलं सैःघ्रं ज्ञशुक्रयोः

मांदवैव स्वमंदोनात्सकलं मध्ययाङ्गुहात् ।

[3] अग्राफलत्रिगुणयोर्विवरैक्यमुक्तं केन्द्रे कुलीरमकरादिगतेत्र कोटिः तद्वर्गवाहुफलवर्गयुतेः फदं स्पात्कणों भुजाफलहतत्रिगुणस्प हार:। Ms. B: 1 dभावेत् 2 b सैघ्रं 2cमांदचैव