पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/133

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकारः II लब्धमत्र निजकेन्द्रभुक्तितः शोधयेद् गतिफलं धनक्षयः ॥ व्यस्तशुद्धिविकलं दलीकृतं स्यान्मृदुस्फुटगतौ ततः पुनः । १३ ॥ प्रोक्तवन्मृदुफलं समस्तकं मध्यमग्रहगतौ यथोदितम् ॥ तद्विहीनचलतुङ्गभुक्तितः शीघ्रजं च निखिलं स्फुटं भवेत् ॥ १४ ॥ शोधनीयमपि नो यदा गते: शुध्यतीह चलकेन्द्रज फलम् । भुक्तिमेव फलतस्तदा हरेद् वक्रभुक्तिरवशिष्टकं भवेत् ॥ १५ ॥ [मन्दशीघ्रफलसाधनविधयः]

मंदग्रहोनमथवा विचलश्च खेटः केन्द्रं ग्रहे धनमृणं [स्वफलं विधेयम् ॥
मान्दं फलं क्रियतुलादिगते स्वकेन्द्रे शीघ्रोच्चसाधितफलं तु तद]न्यथोक्तम् ॥ १६ ॥

भुजाफलं वाऽयुजि साधयेद्गताद्युजि त्रिभज्योत्क्रमजीवयोः फले । क्षयं क्षयस्वे च धनं धनक्षयौ ग्रहेऽथवा केन्द्रपदक्रमाद् भवेत् ॥ १७ ॥ क्षयस्वं [हि] ग्रहे कुर्यात् फलं जीवान्तरं भवेत् ॥ फलयोर्वा विशेषोत्थं व्यत्यासाच्च चले भवेत् ॥ १८ ॥ Text of Ms. A : [13] लव्दमत्र निजकेंद्रभुक्तितः शोधयेद्गत्तिफलं धनक्षयः व्पस्तशुद्धिविकलं दलीकृतं स्पान्मदुस्फुटगतौ ततः पुनः ।

[14] प्रोक्तवन्मृदुफलसमस्तृकं मध्पमग्रहयुतौ यष्ठोदितं ।

तद्विहीनचलकेंद्रयुक्तितशीघ्रजं चानेखिल स्फुटं भवेत्। [15] शोधनीयमधिनी पदा गते: शुद्धयतीह चलकेन्द्रजं फलं । भुक्तिमेव फलतस्तदा हरेद्वक्रभुक्तिरवशिष्टकं भवेत् । [16] मंदग्रहोनमथवा विचलश्च खेठ: केंद्रं ग्रहे धनसृण --- -- - मन्पश्योक्तं । [17] भुजफलं वायुजि साधूयेद्गताद्युजि त्रिभज्पोत्क्रमतीवयोः फलैः क्षये क्षयस्वे च धते धनक्षपौ ग्रहेथवा केंद्रपदक्रमाद्भवेत् ।

[18] क्षयरवं ग्रहे कुर्यात्फल जीवांतरं भवेत

फलयोर्वा विशेषोत्पं व्पत्पासाच्च चलो भवेत् । Ms. B : 15 d भग्वेत्