पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/134

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 2] स्वोच्चनीचग्रहस्फुटीकरणविधिः 106 स्वोच्चनीचपरिवर्तशेषकाद् भूदिनैः कृत[४]हतात्पदानि तु । शेषकात् त्रि[३]गुणिताद् गृहाद्यतः पूर्ववच्च भुजकोटिसाधनम् ॥ १९ ॥ मन्दज चलभवं च तद्धतैभूदिनैर्भगणलिप्तिको [२१६०० ]द्धृतैः । खेचरस्य भगणावशेषक संस्कृतं कलिकयाखिलैः स्फुटम् ॥ २० ॥ दोःफलेन सवितुश्चरासुभिः स्वेन देशविवरेण चोक्तवत् ॥

संस्कृतं कुदिनभाजितं भवेन्मङ्गलादिखचरः परिस्फुटः ॥ २१ ॥

पदशेषं गतसंज्ञां तदूनकुदिनानि गम्यमपि ते द्वे ॥ षण्णवति[९६]घ्ने कुदिनैर्जीवा मौर्व्यन्तराहताच्छेषात् ॥ २२ ॥ कुदिनैर्लब्धयुता ज्या भुजकोटिज्येऽथवा पदानुगते । तत्फलमिलाहनिघ्नं चक्रकलाभाजित शेषे ॥ २३ ॥ Text of Ms. A : [19] स्वोच्चनीचपरिवर्तशेषकाद्भूदिनैः कृतहतात्पदानि तु । शेषकात्त्रिगुणिताद्गृहाघतः पूर्ववच्च भुजकोटिसाधनं ।

[20] मंंदजं चलभवं च तद्वतैः भूदिमैर्भगणालिप्तिकोद्वृत्तः खेचरस्प भगणावशेषकं सक्कृत्तं कलिताखिलै: स्फुट ।
[21] दोःफलेन सवितुश्चरासुभिः स्वेन देशविवरेण चोक्तवत् संस्कृतं कुदिनभाजितं भवेन्मंगलादिखचरः परिस्फुटः ।
[22] पदशेषं गतसंज्ञं त्तदूनं कुदितानि गम्पमर्धिते द्वे । षण्नवतिघ्ने कुदिनैर्जीवा मौर्व्पतराहताश्छेषात् । [23] कुदिनैर्लव्दव्पयुता ज्या भुजकोटिज्पोथवा पदानुगते तत्फलभिनाहनिघ्र चक्रकलाभाजिते शेषे ।

Ms B: 20 b०द्धृत: 23 a °लँब्द° 23c °मिनाह°