पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/135

एतत् पृष्ठम् परिष्कृतम् अस्ति

110 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II [भग्रहोदयेभ्यो ग्रहे स्पष्टे तद्वशात् ग्रहकर्माणि] [उपोद्घातः] भग्रहाभ्युदयेभ्यो वा ग्रहे स्पष्टे तु तद्वशात् ।

तद्दोःफलचराध्वाख्याः संस्काराः परिकीतिताः ॥ २४ ॥

[ अध्वकर्म] स्वोदयभोगोऽभिहतो देशान्तरयोजनैः कुवृत्तहृतः ॥ " प्राग्वद्धनमृष्णमिन्दोर्युगोदयाः प्राग्दिशि निबद्धाः ॥ २५ ॥ जिनभुजकृताष्टकृतकृतद्विशरभुवो [१५२४४८४२२४] मध्यमोदये भुक्तिः । धृतिवसवो [८१८'] नगचंद्राः [१७”] स्तम्बेरमबाहवः [ २८”] कलाद्यैषा ॥ २६ ॥ [भुजान्तरकर्म] यस्योदयगाः खेटास्तन्मध्यस्फुटविशेषलिप्ताघ्नाः । गतयस्स्वोदयभोगव्यामिश्रितभगणलिप्तिकाभक्ताः ॥ २७ ॥ मध्यादधिके स्पष्टे स्वमृणं चोने भुजान्तरं चैतत्। Text of Ms. A : [24] भग्रहाभ्पुदयेभ्पो वा ग्रहे स्पष्टे तु तद्वशात् । तद्दोः:फलचेरावाख्पः संस्कारः परिकीर्त्तितः ।

[25] स्वोदपभोगोपहिते देशांतरयोजनै: कुवृत्तहृत:

प्राग्वद्धनमृणमिदोर्यथोदयाः प्राग्दिशि निवद्धाः ॥ [26] निजभुजकृताष्टेकृतकृतद्विशरभुवे मध्पमोदये भुक्तिः धृतिवृसवो नगचंद्राः सांमेरमवाहवः कलाद्येषा ॥

[27] पस्पोदयगाः खेटीसून्मध्पस्फुटविशेषलिप्तघा:

गतषस्स्वोदयभोगव्पामिश्रितभगणलिप्तिकावक्ताः ।

[28] मध्पादधिके स्पष्टे स्वमृणं चोने भुजांतरं चैतत्

Ms. B : 26 d स्तंभेरम°