पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/138

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 3] प्रतिमण्डलस्पष्टीकरणविधिः 113 तद्योगान्तरघातत्रिज्याकृतियोगविवरमूलं यत् । मृगमुखशशिभवनादौ कर्णो वा स्याद् विनैव बाहुज्याम् ॥ ५ ॥ द्विघ्राग्रज्याभ्यस्ता परमफलज्या मृगादिगे योज्या । त्रिज्यापरफलमौर्व्यो: कृतियोगे कर्कटादिगे शोध्या ॥ ६ ॥

केन्द्रे तस्मान्मूलं कर्णो वा स्याद् विनैव बाहुज्याम् । [ कोटिज्या]
त्रिज्यान्त्यफलज्याकृतियुत्या श्रवणवर्गविवरं यत् ॥ ७ ॥ 

तद्दलितं प्रविभक्तं परमफलमौर्व्याऽथ कोटिजीवा स्यात्। अपरेष्टश्रुतियोगात्तद्विवरघ्नात्पदं वा स्यात् ॥ ८ ॥ [पुनः कर्णसाधनम्] कोटिभुजान्तरनिघ्नो भुजाग्रयोगोद्भवस्तदूनयुते ।

कोटिभुजकृती द्विघ्ने तन्मूले स्तोऽथवा श्रवणौ। ९ ॥

Text of Ms. A : [5] तद्योगांतरघातस्त्रिज्याकृतियोगविवरमूलं पत् । मृगमुखशशिभवभादौ कर्णे वा स्पाद्विनैव वाहुज्पां। [6] द्विघ्नाग्रज्पाम्पस्ता परमफलज्पा मृगदिके योज्पा। त्रिज्यापरफलमौर्व्पारः कृतियुगे कर्कटादिगे शोध्पा ।

[7] केंद्रे तस्मान्मूल कणों वा स्पाद्विनैव वाहुज्पां।

त्रिज्पांत्पफलज्पायुतिकृत्पाश्रवणविचारं यत् ।

[8] तद्दलितं प्रविभत्कं परफलमौर्व्पाथ कोटिजीव्प स्पात् अपरेष्टश्रुतियोगात्तद्दिवरघ्नात्पदं वा स्पात् ।
[9] कोटिभुजांतरतिध्वो भुजाग्रयोगोद्भवं तदूनयुते
कोटिभुजकृती द्विध्ने तन्म्रले स्वोप्पवा श्रवणौ।

Ms. B : 9 d. स्वोथवा