पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/139

एतत् पृष्ठम् परिष्कृतम् अस्ति

114 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकारः II निजयुतिहतभुजकोट्यौ कोटिभुजे स्वान्तराहते स्वमृणम् ।

मूले श्रुती द्विगुणिताद् वधात्पदं वाऽन्तरकृतियुतात् ॥ १० ॥

[ग्रहस्पष्टीकरणम्] [मंदशीघ्रफले] त्रिज्याहता भुजज्या कर्णहृताऽऽप्तस्य कार्मुकं तु फलम् ॥

देयं मन्दे शोध्यं शीघ्रोच्चे स्यात्स्फुटो द्युच्चरः ॥ ११ ॥

[फलसंस्कारविधिः] अविकृत आद्ये चरणे भगणदलाच्छोधित द्वितीयेऽस्मिन्। षड्गृहयुतं तृतीये भगणाच्छुद्धं चतुर्थपदे। १२ ॥ [पदज्ञानम्] अग्राऽन्त्यफलज्यातो[ऽग्रे] यदि पतति तदा प्रथमचतुर्थे ॥ सैवाग्रज्यान्तश्चेत्पतति तदा मध्यमे ज्ञेये ॥ १३ ॥

मध्यपदे वा परफलरहिते तथाऽधिके [[पदे] शेषे ।
पदसंज्ञा चामीभिः फलावगतिरुक्तवच्चान्यत् ॥ १४ ॥

Text 0f Ms. A : [10] निजयुतिहतभुजकोष्वौ कोटिहते स्वांतराहते स्वमृणं । मूले श्रुती द्विगुणिताद्वधात्पदं वांतरकृतिघुतात् । [11 ] त्रिज्याहता भुजज्पा कर्णहृतास्तस्प कार्मुकर्तु फलं । देयं मध्पे शोध्यं शीघ्रोच्चे स्पात्स्फुटो द्युचरः । (12] अविकृत पादे चरणे भगणदलास्छोधितं द्वितीयस्मिन् षङ्गृहयुत तृतीये भगणाश्छुद्धं चतुर्थपदे। [13] अग्रयांत्पफलज्यातो। यदि पतति तदा प्रथमचरणे संवाग्रज्यातच्चेत्पतति तदा मध्पमे ज्ञेयो ! [14] मध्पपदे वा परफलहिने तथाधिके शेषे । पदसंज्ञा चामीभिः फलावगतिरुत्तरत्रान्पत् । Ms. B: 12 b स्मित्