पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/140

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 3] प्रतिमण्डलस्पष्टीकरणविधिः 115 [प्रकारान्तरेण ग्रहस्पष्टीकरणम्] मध्यस्य स्फुटमंदेन विवरार्ध तु मध्यमे ।

स्पष्टे च मध्यमादूने क्षयस्स्वमधिके तथा । १५ ॥ तत्स्फुटतरान्तरार्ध च तत्रैव स्याद्यथोक्तवत्स्वमृणम् ॥ स्फुटमंदेनान्त्यस्य भवेद्विवरमशेष ग्रहे मध्ये । १६ ॥ तत्स्पष्टशीघ्रयोः स्यात्तत्रैवाशेषमन्तरं स्पष्टः । द्वाभ्यामिन्दुजशुक्रावेकेन ब्रघ्नशीतकरौ। १७ ॥

[स्पष्टगतिसाधनम्] निजफलभोजयज्याघ्ना केन्द्रगतिश्चाद्यजीवया भक्ता । त्रिज्याघ्रा कर्णहृता लब्धोनयुता स्वशीघ्रमन्दगतिः । १८ ॥ ग्रहवदनयोर्विशेषौ दिविचरभुक्तयां दिवौकसी भुक्ति:।

संस्कार्यौ' स्पष्टा स्यात्स्वदलैर्निखिलैर्धनर्णवशात् ॥ १९ ॥

Text of Ms. A : [15] मध्यस्प स्फुटमंदन विवराध नु मधामे स्फष्टोच्च मध्यमादूनक्षयस्खमधिके तथा । [16] तत्स्फुटचरांतरार्ध तत्रैव स्था|धृथोत्तवत्स्वमृणं । स्फुटंमदेनात्पस्म भवेद्विवरमशेषं ग्रहे मध्ये । [17] तत्स्पष्टशीघ्रयोस्स्पाक्तत्रैपाशेषमंतरं स्पष्ट: द्वाभ्यामंतरशुक्रावेकेन ब्रघ्नशीतकरौ । (18] निजफलभोजपाज्पाघ्ना केंद्रगतिश्चाद्यजीवया भक्ता । त्रिज्पाघ्ना कर्णह्रता लव्दोनहृता स्वशीघ्रमंदगतिः ।

{19] ग्रहवदनयोविशेषौर्दिविचरभुक्तया दिवौकसे भुक्ति:

संस्कायें स्पष्टे स्पात्स्वडि निखिलैर्धनर्णवगात् । Ms. B: 15 b तु मघामे