पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/144

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 4] ज्याभिविना स्पष्टीकरणविधिः 119 [वक्रानुवक्रगत्योरारम्भे ग्रहाणां शीघ्रकेन्द्रभागाः]

रामाष्टिभिः [१६३] क्षितिसुतः चलकेन्द्रभागैः

वक्रीन्दुजोऽक्षमनुभिः [१४५] गुरुरङ्गसूर्येः [१२६.] ॥ शुक्रः शरर्तुशशिभिः [१६५] शनिरग्निरुद्रैः [११३] चक्रच्युतैः कुटिलगाः कथितास्त्वमीभिः ॥ ९ ॥ [ग्रहाणां वक्रगति-ऋजुगतिदिनानि] पञ्चर्तवः[६५] कुदरत्रा [२१] बाहुशिवा [११२] द्वीषवो [५२] द्विगुणचंद्राः [१३२] । वक्रदिनान्युर्वीजानि निरंशदिनशोधिताण्यृजूनि स्युः ॥ १० ॥ [ग्रहाणां निरंशदिनानि] खाष्टनगा[७८०] रसरुद्रा [११६] नवनवरामाः [ ३९९] पयोधिधीपवनाः [५८४] ॥ वसुशैलगुणाः [ ३७८] क्रमशो भौमादीनां निरंशनिशाः ॥ ११ ॥ [ग्रहाणां पूर्वोदये पश्चिमास्ते वा शीघ्रवेन्द्रांशाः] धीयमलै[२८]स्त्रिखपक्षे[२०३]|विश्वे[१३]स्त्रिमतीन्दुभि[१८३]र्नगशशांकै:[१७] । दृश्याः प्रागपरायां च्युतैर्भचक्रादिमेऽदृश्याः ॥ १२ ॥ Text of Ms. A : [9] रामाष्टिभिः क्षितिसुतः चलकेन्द्रभार्गे वक्रन्दुजोक्षमनुभिर्गुरुरंगसूयैः शुक्रः शरर्तुशशिभिः शनिरग्निरुद्रैः चक्रच्पुतैः कुटिलगाः कथितास्त्वमोभिः ।। ॥

[10] पंचर्तवः कृदस्रा बाहुशिवा द्वीष्टवो द्वेगुणचंद्राः वक्रदिनान्पुर्वीजात्रिरशदितशोधितानजूनि स्पुः 

[11] खाष्टनगा रसरुद्रा नवनवरागाः पयोधि"धीयवना: वसुशैलगुणाः क्रमशो भोमादीनां तिरंशनिशाः

[12] धीयमलैस्त्रिखपक्षैर्विश्वैस्त्रिमतीदुभिर्नगशशांकै

दृश्याः प्रागपराया च्पुता भातो दृश्याः । । Ms. B : 9 a °भागै 9 b र्वक्रेन्दु° 11 b °धीपवनाः