पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/146

एतत् पृष्ठम् परिष्कृतम् अस्ति

5. फलज्यास्फुटीकरणविधिः [उपोद्घातः] भुजकोटिफलश्रवणैर्द्युसदां स्फुटताऽभिहिता हि मया विविधा । कथयाम्यधुनाऽतिविवेक[युतः] स्फुटतां भुजयाऽहमवाप्तवरः ॥ १ ॥ [ज्यान्तरसम्बन्धि-मन्दशीघ्रफलैः स्पष्टग्रहसाधनम्।] · [ प्रथमविधिः] निजवृत्तगुणाः क्रमकेन्द्रगुणा भगणांश[३६०]हृताः फलचापकलाः । द्युचरस्य फलान्यनुपातफलं मृदुजं चलजं त्वसकृद्द्युचरे ॥ २ ॥ [द्वितीयविधिः ]

महति केन्द्रपदे चलदोःकला विरहिताः खलु तेन फलेन यत् ॥

भवति चापहृतादपि बाहुतो लघुनि सैव युताद्धनुषा हृतात् ॥ ३ ॥ फल तत्स्याच्छेषं फलविवरनिघ्नं स्वफलयोविशेषेणैवाप्तं लघुनि च पदे चापमधिकम् ।

महत्येवं हारः फलमधिकमाप्त्या चलफलं विधेयं प्राग्वत्तत्स्वमृणमथवैवं दिविचरे ॥ ४ ॥

Text of Ms. A : [1] भुजकोटिफलश्रवणैद्युसदां स्फुठत्ताभिहिता हि मया विविधा कथयाम्पधुनातिविवेक स्फुटती भुजयाहमवाप्तवर: [2] तिजवृत्तगुणाः क्रमशोवगुणा भगणांशहृताः फलचापफलाः व्पुचरफलान्पनुपातफलं मृदुजं चलजं त्वसकुद्द्युचरे। [3] महति केन्द्रफले चलदोःकला विरहिताः खलु तेन फलेत यत् भवति वापहृतादपि वाहुतो लघुनि दैवयुता धनुषा हृताः । [4] फलं तत्स्पाश्छेषं फलविवरनिघ्नं स्वफलयोर्विशेषोणैवोनं लघुनि च पदे चापमधिकं ।

महत्पेवं हारः फलमधिकमाप्त्पा चलफलं विधेयं प्राग्वत्तत्स्वमृणमथवैवं दिविचरे ।

Ms. B: 1 bस्फुटत्ता° 1 dस्फुटतां°