एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकार: II [प्रकारान्तरेण मन्दशीघ्रफलसाधनम्] फलखण्डकसंख्ययोर्हतिः फलयुग्धीनमनल्पकाल्पयोः ।
पदयोर्धनमत्र केन्द्रकं फलमेतैरनुपाततोऽथवा ॥ ५ ॥
[वक्रग्रहस्य केन्द्रगतिः।]
केन्द्रभुक्तिनिहतं कलान्तरं खेटहारभजितं यथोक्तवत् ॥
वक्रजं मृदुफलं गताविह व्यत्ययेन गदिताद्धनक्षयात् ॥ ६ ॥ [ वक्रानुवक्रकेन्द्रसाधनम्।]
[ प्रथमविधिः]
केन्द्रभुक्तिकलिकाहतं धनुः शीघ्रभुक्तिभजितं पदेऽल्पके ।
यस्य केन्द्रविवरस्य तत्समं षड्भयुक्तमनुवक्रकेन्द्रकम् ॥ ७ ॥
[द्वितीयविधिः]
त्रिज्याघ्ना केन्द्रभुक्तिश्चलगतिभजिता वक्रकर्णस्ततोऽपि प्राग्वद्बाह्वग्रजीवे भुजफलधनुषो भोग्यजीवाहतोऽसौ । आद्यज्याहृच्च कर्णः पुनरखिलमिदं कर्म यावत्स्थिरत्वं कोटिज्याधन्वयुक्तं त्रिभमिह गदितं वक्रकेन्द्रं ग्रहस्य । ८ ।
Text of Ms. A : [5] फलखंडकसंख्पपा हतं फलयुग्धीनमनल्पकाल्पयोः पदयोर्धनमत्र केन्द्रकं फलमैतेरनुपातत्त्तोथवा ।
[6] केन्द्रमुक्तिनिहितं कलांतरं खेटहारमर्जितं यथोक्तवत्। वक्रजं मृदुफलं गत्ताविह व्पत्पयेन गदिताद्धतक्षयात् ।
[7] केन्द्रभुक्तिकलिकहतं धनु- शीघ्रभुक्तिभजितं पदेल्पके । यस्प केन्द्रविवरस्प तत्समं षड्भपुक्तमनुवक्रकेन्द्रकं । [8] त्रिज्पाघा केन्द्रभुक्तिश्चलगतिभजिता वक्रकर्णस्ततोपि । प्राग्वद्वाह्नग्रजीवे भुजफलधनुषो भोग्पजीवाहतोसौ
आद्यज्पाहृच्च कर्णः पुनरखिलमिदं कर्म यावत्स्छिस्त्वं कोटिज्पाधन्वयुक्तं त्रिभमिह गदितं वक्रकेंद्रे ग्रहस्प ।