पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/148

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 5] फलज्यास्फुटीकरणविधिः १२३ [वक्रगतेः प्रदर्शनम्।]

[वक्राद्यन्तज्ञानम्]
शीघ्रोच्चनीचवृत्तान्मृगकर्क्यादिप्रवृत्तसूत्रस्य । 

भूमध्ययुतेर्यत्र च वृत्तस्पर्शोऽस्ति तत्रैव ॥ ९ ॥ अनुवक्रवक्रकेन्द्रे, केषांचिदथाल्पके पदेऽन्ते च ।

बहुशः कोटच्या श्रुत्या वाऽत्र विधिवत् प्रवक्ष्येऽहम् ॥ १० ॥

[तत्र कोटिफलम्]

त्रिज्यान्त्यफलज्याकृतियोगेन विभाजयेत् त्रिज्या ।

द्विघ्त्राऽन्त्य[फलज्या ]कृतिनिघ्नाऽऽप्त[फलं] कुटिलकोटेः ॥ ११ ॥ [बाहुफलम्] त्रिज्यान्त्यफलज्याहतिवर्गात्संशोध्य वर्गवर्गमपि । परफलगुणस्य शेषं व्य[न्त्य]फलकृतियोगसंगुणितम्। १२ । त्रिज्याकृतिपरमफलज्यावधवर्गाद्विशोध्य शेषपदम् ।

संशोध्य वधाल्लब्धं योगेन फल कुटिलबाहोः । १३ ॥

Text of Ms. A : [9] शीघ्रोच्चनीचवृत्तान्मृगकवर्भादिप्रवृत्तसूत्रस्प । भूमध्पयुतेर्पत्र व वृत्तस्मशोत्र तवैव ॥ [10] अनुवक्रवक्रकेंद्रे केषांचिदथाल्पके पदेत्ते च । वहुशः कोद्या श्रुत्पा सात्र विधिवत्प्रवक्ष्पेहं । ।

[11] त्रिज्पोत्पफलज्पाकृतियोगेन विभाजयेत्त्रिज्पो । द्विघ्रांत्पकृतिनिध्रामाप्तकुटिलकोटिः ।
[12] त्रिज्पांत्पफलज्पाहतिवर्गात्संशोध्य वर्गवर्गमपि ॥ परफफलगुणशेषं व्पंशफलगुणकृतियोगसंगुणितं।
[13] त्रिज्पाकृतिवपरमफलज्पावधवर्गद्दिशोध्प शेषपर्द ।

संशोध्प वधाल्लव्द योगेत फलं कुटिलवाहोः । Ms. B : 9 b cकर्क्मादि० 10 d सान्तर्विधि° 13 b oपदं 13 c ०ल्लब्दं 13 d योगेन