पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/156

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 6] तिथ्याद्यानयनविधिः 131 [नक्षत्रशशियोगः] षड्भानि पौष्णसंज्ञाद्रौद्राद् द्वादश नवेन्द्रसंज्ञाच्च । प्राङ्मध्यात्यदलेषु व्रजन्ति योगं समं शशिना ।। १० ।। [करणसाधनम्] वीनेन्द्वंशा भक्ता रसैः [६] फलं व्येकमश्व[७]हृतशेषम् । करणं गतागतकला गतिविवरांशोद्धृता नाडयः ।। ११ ।। [स्थिरकरणानि] कृष्णचतुर्दश्यन्ते शकुनिः कुह्वाश्चतुष्पदः प्रथमे । खण्डे परे नागं च प्रतिपत्पूर्वे च किंस्तुघ्नम् ॥ १२ ॥ [योगसाधनम्] रविचन्द्रयोगलिप्ताःखखवसु[८००]भक्ताः फलं गता योगाः । खरस[६०]गुणे गतयेये गतियुतिभक्ते फलं नाड्यः ।। १३ ।। Text of Ms. A : [व्यतिपातवैधृतयोर्लक्षणम्] चक्रार्धे व्यतिपातो रविचन्द्रयुतौ समाज्यमधुयोगात् । विषवच्चायनभेदे क्रान्तिसमत्वे तयोः पतति ।। १४ ।। [10] षड्भाभिपौष्णसज्ञाद्रौद्राद्द्वादश नवैन्द्रसंज्ञाश्च प्रान्मध्पांत्पदलेषु व्रजंति योगं समं शशिना । [11] वीनेन्द्रंशा भक्ता रसैः फलव्पैकमश्चिहृतशेषं करणं गतागतकाला गतिविवररांशोद्धता [12] कृष्णचतुर्दश्पंते शकुनिः कुह्नाश्चतुष्पद प्रथमे खंड च परे भागं प्रतिपत्पूर्वे च किंतुघ्रं । [13] रविचंद्रयोगलिप्ताः खखवसुभक्ताः फलं गता योगाः खरसगुणे गतये गतिघुतिभक्ते फलनाडयः ।। [14] चक्रार्धे व्पतिपातो रविचंद्रपुतौ समाज्पमधुयोगात् विषुवच्चायने भेदे क्रांतिसमत्वे तयोः पत्तति १३१