पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/159

एतत् पृष्ठम् परिष्कृतम् अस्ति

134 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे । [अधिकारः II - शेषाः चापकलिकाः खण्डधनुर्वजिते चापे । योज्याः तस्माद्दिनादि पूर्वोोक्तकर्मणा चन्द्रे ॥ २६ ॥ समपदगे संशोध्योऽनेहसा तस्य पातःसमयस्सः । खण्डधनुःक्रान्तिकला आद्यान्न पतन्ति चेत्तदा प्रथमात् ॥ २७ ॥ तत्त्वयम[२२५]घ्नाद्विम्बक्रान्तिखण्डाप्तकलिकाभिः ॥ -

दिग्दर्शिता स्वबुद्धच्या स्पष्टः साध्यो विनेष्टघटिकाभिः ॥ २८ ॥

[द्वितीयविधिः] यदि भूतो भावी वा द्वयोर्विशेषोऽन्यथा युतिहरः ॥ आद्यष्टहतेर्नाडय: प्रथमवशान्मध्यमेताभिः । २९ ॥ तात्कालिकैर्ग्रहैस्तैरसकृत्त्ववशिष्टमध्यनाडीघ्नम् ।

मानेक्यार्धं भक्त प्रथमेनाप्तघटिकाभिराद्यन्तौ । ३० । निजबिम्बापक्रान्त्या रविमानापक्रमाज्जहातीन्दुः । यावत्सममार्गगतस्तावत्पातोक्त्तफलसिद्धिः ॥ ३१ ॥

Text of Ms. A : [26] शेषा चापकलिका खंडधनुर्वर्जिते चापे यो - - - - जपादिना विपरीते कर्मणा चंद्रे । [27] समयदगे संशोध्पोनेहासंनस्प पातसमयस्प । खंडधनुः क्रांतिकल्म आद्यान्न पतंति चेत्तदा प्रथमात् । [28] तत्त्वमयघ्नाद्विचक्रांतिखंडाप्तघटिकाभिः दिग्दर्शिता खबुद्धया स्पष्टस्साध्पो विनेष्टघटिकाभिः । [29] पदि भूति । भावी वा द्वयोर्विशेषोत्पथा युतिर्हार- आद्येष्टहतेर्नाडय: प्रथमवशान्मध्पमेताभिः । [30] तात्कालिकैर्ग्रहैस्तैरसकृत्त्ववशिष्टमध्पनाडीघ्नं । मानिक्यार्ध भक्तं प्रथमेनाप्तघटिकाभिराद्यंतौ । [31] निजविवापक्रांत्पा रविमानापक्रमाज्जहातीन्दुः यावत्सममार्गगतस्तावत्पातोक्तफलसिद्धि: । Ms. B.: 27 a समपदगे 27 c क्रान्तिकला 28 c स्वबुद्धया