पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/164

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 7] प्रश्नविधिः 139 स्पष्टीकरोति बहुधा स्वफलैर्ग्रहान् यो भुक्तीश्च केन्द्रमपि मन्दचलोच्चसंज्ञम् ।

कुर्यात् स्फुटं दिविचरं स्वखगं च मध्यं वेत्ति स्फुटां ग्रहगतिं खलु [दैववि]त्सः ॥ ५ ॥

तुङ्गमेव कुरुते स्फुटग्रहं तद्गति च ख[लु] भुक्तिमैन्दवीम् । यातयेयदिनयोस्तथाद्यजां वेत्यसौ स्फुटगतिं दिवौकसाम् । ६ । मध्यभुक्तिसदृशी स्फुटा गतिः खेचरस्य मृदुकर्णसाधिता । मन्दकेन्द्रमथ तत्र कीदृशं ब्रूहि वेत्सि यदि तत्त्वमीदृशम् ॥ ७ ॥ यातकालमवमावशेषज भूदिनौघखगपर्ययादिना ।

पातकालमवमस्य वेति यः स्यादसावव[म]पातविद्बुधः ॥ ८ ॥

स्पष्टमेव ख{च]रं द्युराशितो वेति वाऽभिहितखेचरोदये । अश्विनस्य खलु वा प्रसाधयेद्यस्स वेत्ति विमलां स्फुटां गतिम् ॥ ९ ॥ ज्याभिविनैव कुरुते भुजकोटिजीवे चापं च यः स्फुटखगं च करोति मध्यम् ॥

तुङ्गात्तथोच्चगतिमध्यगती स्फुटे यश्चेष्टां करामलकवद्द्युसदां स वेति ॥ १० ॥

Text of Ms. A :

[5] स्पष्टीकरोति वहुधा स्वफलैग्रहान्पो भुक्तीश्च केन्द्रमपि मन्दफलोच्चसंज्ञं।

कुर्यात्स्पुष्टं दिविचारं सखगं च मध्पं वेति स्फुठां ग्रहगतिक - - - खलु कित्स:

[6] तुंगमेव कुरुते स्फुटग्रहं तद्गतिं च खभुक्तिमैन्दवीं ।

पातपेयदिनयोस्तथाद्यजं वित्त्पसौ फुटगतिं दिवीकसा ।

[7] मध्पभुक्तिसदृशी स्फुटा गतिः खेचरस्प मृदुकणसाधिता ।

मंदकेन्द्रमथ तत्र कीदृशं ब्रूहि वेत्सि घदि तत्वमीदृशं । [8] यातकालमवमावशेषकं । भूदिनार्धमभपर्ययान्दिना । पातकालमवमस्प वोत्तेयः स्पादसाववपातविद्वध: । [9] स्फष्टमेव खरं द्युराशितो वेति वाभि । हेतखेचरोदये । अश्चितस्प खलु वा प्रसाधयेद्यस्स वेति विमलां स्फुटां गति ।

[i0] ज्पाभिविंर्नैव कुरुते भुजकोटिजीवा चापं च यस्फुटखगं च करोति मर्ध्म ।

तुंगात्तथोच्चगतिमध्यगती स्फुटे यो चेष्टां करामलकवघ्रुसदां सृवेति ॥ ॥ Ms. B.: 8 b °पर्ययाब्दिना