पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/167

एतत् पृष्ठम् परिष्कृतम् अस्ति

III. त्रिप्रश्नाधिकारः 1• विषुवच्छायासाधनविधिः [उपोद्घात:]] त्रिप्रश्नोक्त्या[ऽभिहितं] समस्तमष्टाधिकारजं यस्मात् ॥

त्रिप्रश्नाह्नं तस्मादधिकारं स्पष्टमभिधास्ये ॥ १ ॥

[दिक्साधनविधयः] समभुवि वृत्ते शङ्कोर्मध्यस्थस्य प्रभा क्रमाद्यत्र ॥

प्रविशत्यपैति ककुभौ क्रान्तिवशात्स्तोऽपरैन्द्रत्याख्ये ॥ २ ॥

तुल्यप्रभाग्रयोर्वा पूर्वापरयो: कपालयोर्बिन्दू । कार्यावपक्रमवशादपरैन्द्रयाख्ये दिशौ भवतः । ३ ।। वृत्तं रवौ प्रविष्टे सममण्डलसंज्ञितं प्रभा या स्यात्। समपूर्वापरगा सा सौम्या यत्र ध्रुवः सा स्यात् ॥ ४ ॥ Text of Ms. A : [1] त्रिप्रश्नोक्त्या निखिलं समस्तमष्टाधिकारजं यस्मात्

त्रिप्रश्नाह्नं तस्मादाधकारं स्पष्टमभिधास्पे।
[2] समभुवि वृत्ते शंकोर्मध्यस्पस्प प्रभा क्रमाद्यत्र

प्रविशत्पपैति ककुभौ क्रांतिवशात्स्तोयरैन्द्राघाख्ये ।

[3] नुल्पं प्रभाग्रयोर्वाः पूर्वापरयोः कलापयोविन्दू ।

कार्यावपक्रमवशादपरैन्द्राख्पो दिशौ भवत:

[4] वृत्तं रवौ प्रविष्टे सममंडलसंज्ञितं प्रभा या स्पात्

समपूर्वापरगा सा सौम्पा घत्र ध्रुवस्सा स्पात् । Ms. B: 3 तुल्यं