पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/168

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] विषुवच्छायासाधनविधिः 143 इष्टाभाभुजकोटीरचितत्रिभुजस्य वा श्रवणतुल्या । यत्रेष्टाभा यावत् तावत्पूर्वापरा कोटिः ॥ ५ ॥ यत्रास्तमेति कश्चिद्युचरः क्रान्त्या विनोदयं याति ॥ वरुणामरपत्योदिशौ | भवेते} क्रमादथवा । ६ । उदयति पौष्णं यत्र श्रवणो वा सा दिगिन्द्रस्य ।

स्थूलाऽथवा प्रदिष्टा चित्रास्वात्यन्तरं विबुधैः ॥ ७ ॥

छायात्रयाग्रजमीनद्व[य]मध्यगसूत्रयोर्युतिर्यत्र ॥

याम्या सोत्तरगोले सौम्या याम्ये ककुब् नृतलात् ॥ ८ ॥

[छायाग्रभ्रमवृत्तम्] छायात्रितयाग्रस्पृक्सूत्रयुतेर्वत्तमालिखेत्तस्य । लेखां न जहात्याभा वनितेव कुलस्थिति कुलोत्पन्ना ॥ ९ ॥ Text of Ms. A : [5] इष्टाभाभुजकोटीरचितत्रिभुजस्प वा श्रवणतुल्पा । यत्रस्पोभा यावत्तावत्पूर्वापरा कोटिः ।

[6] यात्रास्तमोते कश्चिद्युचरः क्रांत्पा विनोदयं याति वरुणापरायत्पोदिशौ पतेते क्रमादथवा ।
[7] उदयति पौष्ण पत्र श्रवणो वा सा दिगिद्रस्प 

स्ठूलापवा प्रदिष्टा चित्रास्वात्पंतरं विवुधैः । 8 कायात्रयाग्रगामीनद्वमध्पगसूत्रयुतिर्यत्र याम्पा सोत्तरगोले सौम्या याम्पे ककुघ्नातलात् ।

9 छायात्रितयाग्रस्पृक्स्वूत्रपुतेर्वृत्तमालिखेत्तस्प ॥

लेखा न जहात्पामा वनितेव कुलस्छितिं कुलोत्पन्ना । Ms. B : 5 a ०जकोटी ऽd °त्पूवीपरा