पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/170

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] विषुवच्छायासाधनविधिः 145 क्रान्तिज्याग्राकृत्योविशेषमूलं द्युमण्डले कुज्या ।

द्वादशगुणिता कुज्या क्रान्तिज्याहत् पलाभा वा ॥ १५ ॥

सूर्याभिमुखी यष्टिर्धार्या तद्वत् त्रिभज्यया तुल्या ।

यद्वच्छायाभावः शङ्कुस्तल्लम्बकः प्रोक्तः ॥ १६ ॥ तत्पूर्वापरलेखाविवरं बाहुः नृयष्टि[भा]तुल्यम् । 

दृग्ज्या कर्णो यष्टिः द्युदलभुजो दृग्ज्यया तुल्यः ॥ १७ ॥

बाह्वप्रयोः समासो भिन्नदिशोरन्तरं तथैक[दिशोः ॥
शङ्कुतलं शङ्कु (१२) गुणा] तज्ज्या लम्बकोद्धृताऽक्षाभा ॥ १८ ॥

सूर्ये[१२Jघ्ना वाऽक्षज्या लम्बज्याहृच्च पलभा वा ॥ १९ ॥ द्युदलच्छायाभ्यस्ता सूर्याग्रा च स्वदुग्ज्यया भक्ता । फलयुतहीना भुजवद्द्युदलाभा [[वा] पलच्छाया ॥ २० ॥ Text of Ms. A [15] क्रांतिज्पाग्राकृत्पोर्विशेषमूलं घुमण्डले कुज्पा द्वादशगुणिता कुज्पा क्रांतिज्पाहत्पलाभा वा ।

[16] सूर्याभिमुखी यष्टिर्धार्या तद्वत्रिभज्पया तुल्या

घद्वश्छायाभावः शंकुस्तल्लम्वकः प्रोक्तः ॥

[17] तत्पूर्वापरलोखाविचरं वाहु नृयष्टितुल्पं

दृग्ज्पा कर्णों यष्टिर्घुदलभुजो दृग्ज्पया तुल्यः ।

[18] वाह्वग्रयोस्समासो मित्रदिशोरंतरं तर्थकं
                 तिज्पा लंवकोद्धृताक्षाभा
[19] सूर्यघ्रा वाक्षज्पा लंवज्पाहृच्च पलभा वा ।
[20] घुदलश्छायाभ्पस्ता सूर्याग्रा च स्वदृग्ज्पया भक्ता

फलयुतहीना भुजवद्द्युदलाभा पलश्छाया । Ms. B: 15 b oविशष° 16 a ०भिशुत्धीरवी°