पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/184

एतत् पृष्ठम् परिष्कृतम् अस्ति

5. कुज्यानयनविधिः क्रान्तिज्याऽक्षज्याघ्ना लम्बकजीवाविभाजिता कुज्या। विषुवच्छायागुणिता क्रान्तिज्याऽकों[१२]द्धृता वा स्यात् ॥ १ ॥ क्रान्ति ज्याग्राघाते समनरभक्तेऽथवा महीजीवा । वाऽग्रा विषुवद्भाघ्ना पलकर्णविभाजिता कुज्या ॥ २ ॥ अग्राकृतिर्विभक्ता समधृत्या वा फलं कुजीवा स्यात् ।

नृतलाभ्यस्ता वाऽग्रा स्वधृतिविभक्ता महीजीवा ॥ ३ ॥

लम्बत्रिभगुणवधहतसमनुर्वाऽक्षगुणवर्गलब्धं यत् । त्रिज्यार्कसमनृघातात्पलभाघ्नाक्षज्ययाऽवाप्तं वा ॥ ४ ॥* Text of Ms. A : [1] क्रांतिज्पाक्षज्पाघ्ना लंवकजीवाविभाजिता कुज्पा विषुवच्छाघागुणिता क्रांतिज्पार्कोद्धृता वा स्पात् ।

[2] क्रांतिज्पाग्राघाते समनरभक्तथवा महीजीवा ।

वाग्रा विषुवद्भाघ्ना पलकर्णविभाजिता कुज्पा ।

[3] अग्राकृतिर्विभक्ता समधूत्पा वा फलं कुजीवा स्पात्

नृतलाभ्पस्ता चाग्रा स्ववृतिविभक्ता महीजीवा ।

[4] लंवत्रिभगुणवधहतसमनुर्वाक्षगुणवर्गलव्दं यत्। त्रिज्पार्कसमनृघातात्पलभाघ्नाक्षज्पयावाप्तं वा !

Ms. B : 3 b समधृत्या 4 b °ą वर्गलब्दं 1. In verses 4-10(a-b), multipliers and divisors have been wrongly stated as divisors and multipliers. The error has been rectified in the English translation.