पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/189

एतत् पृष्ठम् परिष्कृतम् अस्ति

164 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III समनाऽक्षज्यागुणितो लम्बज्याभाजितोऽथवाऽग्रज्या ॥ विषुवच्छायागुणितः समना वाऽर्को[१२]द्धृतोऽग्रज्या ॥ ६ ॥ कुज्यागुणितस्समना क्रान्तिज्याभाजितोऽथवाऽग्रज्या । समना नृतलाभ्यस्तः शङ्कुविभक्तोऽथवाऽग्रज्या ॥ ७ ॥ तद्धृतिरक्षज्याघ्ना व्यासार्धविभाजिताऽथवाऽग्रज्या । अथवाऽक्षच्छायाघ्ना तद्धृतिरक्षश्रुतिहुताऽग्रा ॥ ८ ॥ तद्धृतिरथ नृतलघ्ना स्वधृतिविभक्ताऽथवाऽग्रा स्यात् ॥ तद्धूतिशङ्क्वोर्घातोऽक्षज्याघ्नः स्वधृतिलम्बगुणवधहृत् ॥ ९ ॥ घातः कुज्यागुणितः क्रान्तिज्यास्वधृतिघातहृद्वाऽग्रा ॥ वाऽक्षाभाघ्नो घातः सूर्य[१२]घ्नस्वधृतिभक्तोऽग्रा ॥ १० ॥ [कुज्याशङ्क्वोर्घातस्त्रिज्याघ्नो लम्बनृतलवधहृद्वाऽग्रा । पलश्रुतिगुणितो घातो नृतलार्क[१२]गुणहृतोऽथवाऽग्रा ॥ १०* ॥] Text of Ms. A : [6] समनाक्षज्पागुणितो लवज्पाभाजितोथवाग्रज्पा विषुवश्छायागुणितस्समना वार्कोद्धृतोग्रज्पा

[7] कुज्पागुणितस्समना क्रांतिज्पाभाजितोथववाग्रज्पा

समना नृतलाम्पस्तः शंकुविभक्तौथवायज्पा । [8] तद्वृतिरक्षज्पाघ्ना व्यासार्यविभाजिताथवाग्रज्पा अथवाक्षश्छायांघ्ना तद्वृतिरक्षश्रुतिहृताग्रा

[9] तद्वृतिरथ नृतलघ्ना स्वधृतिविभक्ताथवाग्रा स्पा

कुज्पाशंक्वोर्धातोक्षज्पाघ्नस्खधूतिलंवगुणवधहृत्। [10] घातः कुञ्ज्पागुणितः क्रांतिज्पास्वधृत्तिघातहृद्वाग्रा । वाक्षाभाघ्रो घातस्सूर्यघ्नः स्वधृतिभक्ताग्रा । । Ms. B: 9 स्स्वधृत्ति