पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/201

एतत् पृष्ठम् परिष्कृतम् अस्ति

176 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III [लग्नात् कालसाधनम्] एकस्मिन् यदि भवने विलग्नसूर्यौ तदा तयोर्विवरे भागाः स्वोदयगुणिता वियदग्नि[३०]विभाजिताः कालः ॥ २० ॥ [मध्यलग्नं कालश्च] मध्यविलग्नं रविगतगतोदयफलोनितो रविद्युदलात् । पूर्वनतासुभिरुपरि च प्रोक्तवल्लग्नसमरवौ कालः ॥ २१ ॥ [रात्री लग्न-लग्नकालसाधनम्] रजनीशेषाल्लग्नं प्राग्वत् विशोधयेद्द्युपाच्च ।

भोदययुक्त्तात् सूर्ये लग्नसमे शेषकालः स्यात्। २२ ॥

[स्वदेशोदयं विना लग्नकालानयनम् । भानोः लङ्कोदयवत्प्राणास्साध्याश्चरासवश्चापि ।

तद्वियुतिर्मकरादौ कर्कटकादौ युतिः प्राणाः ॥ २३ ॥'

Text of Ms. A :

[20] पृकस्मिन्पदि भवने विलग्नसूर्यौ' तदा तयोर्विवरे भागास्खोदयगुणिता वियदग्निविभाजिताः काल: 

[21] मध्यविलग्नं रविगतगतोदयफलोनितो रविद्युदालात् पूर्वनतासुभिरुपरि च घोक्तवल्लग्नसमरवौ कालः 22] रजनीशेषाल्लग्न प्रांनत विशोधयेद्युषाच्च । षड्भधुतं तत्सूर्यें लग्नसेमे शेषकालस्स्पात् [23] मानं लंकोदयात्प्राणास्साध्पाश्चरासवश्चापि तद्वियुतिर्मजरादौ कर्कटादौ पुतिः प्राणाः 1. The reading भानां लङ्कोदयात् is possible but it is not intended here. See BrSpSi, xv. 29 and SiŚe, iv. 30. *