पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/203

एतत् पृष्ठम् परिष्कृतम् अस्ति

9. द्युदलभादिविधिः [दिनार्धकाले दृग्ज्या-शङ्कु-त्रिज्या-क्षेत्रम्] क्रान्त्यक्षान्तरयोगस्समान्यककुभोर्नतांशकाः खाक्षः । तज्ज्या दृग्ज्या दोर्ज्या नतांशकोनास्त्रिगृहभागाः ॥ १ ॥ उन्नतभागाः कोटिस्तज्ज्या उज्ज्या नरस्तथा शङ्कुः । उन्नत जीवा, त्रिज्या कर्णो यष्टिस्तथा नलक: ।। २ ।। [दिनार्धच्छायादिग्ज्ञानम् । सौम्यक्रान्तेः स्वपलेऽल्पे याम्या द्युदलभाऽन्यथा सौम्या ।

द्युज्यातो लम्बज्या यदि महती स्यात्तदाऽप्येवम् ॥ ३ ॥

[दिनार्धनतांशज्ञानम्] द्युज्याधनुः समेतं पलेन स्वकेन यदा त्रिभादूनम् ॥ याम्याऽन्यथेतरा भा तत्त्रिभविवरं नतांशाः स्युः ॥ ४ ॥ Text of Ms. A [1] क्रात्पक्षातरयोगस्समान्पककुभोन्नतांशकाः खाक्षाः त्तज्ज्पा दृग्ज्पा दोर्ज्पा नतांशकोनास्त्रिगृहभागाः

[2] उग्नतभाग: कोटिस्तज्ज्पा वज्पां नरस्तथा शंकुः

। उन्नतजीवा त्रिज्पा कर्णो याष्टिस्तथा नलकः।

[3] सौम्पक्रांतेस्खलेपे । याम्पा द्युदलभान्पथा सौन्पा

द्युज्पातो लंवज्पा यदि महती स्पातदाप्पेवं [4] द्युज्पाधनुस्समेतं पलेन समेत यदा त्रिमादूनं याम्पेन्पथेतरा भा तत्त्रिभविवरं नतांशाः स्पुः Ms. B : 4 c माin place of भा