पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/205

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे अधिकारः ।।। गुणहारान्तरगुणितौ धृतिघातौ केवलैस्त्रिभज्याघ्नैः । हारैः हृतौ फलोना धृतिरथवा शङ्कवः क्रमशः ।। १० ।।

घातस्त्रिज्याहतहरगुणकान्तरसङ्गुणस्त्रिगुणनिघ्नैः। छेदैर्भक्ते फलवियुते घाते शङ्कवो वा स्युः ।। ११ ।।

द्युज्याघ्नगुणकनिहतान्त्यानन्तरहारहृन्नरा वा स्युः । वैतद्गुणहारान्तरनिहताऽन्त्या तैर्ह्रता हारैः ।। १२ ।।

फलरहिताऽन्त्या [द्युज्यागुणिता त्रिज्याहृता] नरा [वा स्युः] । वाऽन्त्यौगुणितैर्गुणकैर्हता द्युजीवा पृथक् क्रमशः ।। १३ ।।

भक्तानन्तरहारैर्नरा द्युजीवाः पृथग्गुणिताः वोक्तगुणहारविवरैर्गुणिताश्छेदैहृताः फलसमेताः ।। १४ ।।

द्युज्या गुणके हारान्महति विहीनाऽल्पके तु[ततः । अन्त्यागुणिता भक्ता त्रिभजीवया] नराः [क्रमशः] ।। १५ ।।

Text of Ms. A : [10] गुणहारांतरगुणितौ घृतिघातौ केवलंस्त्रिभज्पाप्तैः हारैः हृतौ फलोनघृतिरथवा शंकवः क्रमशः [11] घातस्त्रिज्पाहतहरगुणकांतरसंगुणास्त्रिगुणनिघ्नैः छेदैर्दर्भक्तैः फलवियुते घाते शंकवो वा स्पुः [12] घुज्पाघ्नगुणकनिहतांत्पानंतरहारहृन्नरा वा स्पुः वैतद्गुणहारांतरनिहतांत्पैतैहृता हारैः [131 फलरहितांत्पेव [unindicated gap] नरा वांत्पागुणितैर्गुणैर्हता घुज्पा[unindicated gap} [14] भत्कानंतरहारैर्नरा धुजीवा पृथग्गुणिता वोक्तगुणहारविवरैर्भक्ताश्छेदैर्हूता फलसमेत्ता [15] द्युज्पा गुणके हारान्महति विहीनाल्पके तु [umindicated gap ] नराः