पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/209

एतत् पृष्ठम् परिष्कृतम् अस्ति

184 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे । अधिकार: III द्युदलाक्षकर्णयोगस्तद्विवरघ्नश्छायान्तरभक्त:। फलमक्षभया। रहितं द्युदलच्छा[या] भवत्यथवा ॥ ३२ ॥ वा भावृत्ताग्रोनयुते विपरीते दिनार्धपलभे स्तः । सौम्ये याम्ये पलभादिनार्धभे स्तोऽथवा गोले ॥ ३३ ॥ भावृत्ताग्रोनयुक्त[घ्ना] द्विगुणाक्षाभा पलश्रवणवर्गे । देया याम्ये शोध्या सौम्ये मूलं द्युदलकर्णः ॥ ३४ ॥ त्रिज्याधृतिविश्लेषोऽक्षश्रुतिनिहतो विभाजितो धृत्या ।

फलवियुगुत च समेतोऽक्षश्रुतिरितरद् द्युदलकर्णः ॥ ३५ ॥

द्युज्यान्त्याघातत्रिगुणकृतिविशेषोऽक्षकर्णसङ्गुणितः । द्युज्यान्त्याहुल्लब्ध्याऽक्षश्रुतिरूनयुतोऽपि द्युदलकर्णः ॥ ३६ ॥ Text of Ms. A : [32] घुदलाक्षकर्णयोगस्तद्विवरघ्रांगुलया भक्त्त: फलमक्षभया। रहितं घुदलश्छा भवत्पथवा ।

[33] वा भावृत्ताग्रोनयुक्तं दलितं दिनार्धपलभे स्तः

सौम्पे याम्पे पलभादिनार्धभे स्तोथवा गोलो [34] भादृताग्रोनयुता द्विगुणाक्षाभा पलश्रवणवर्गे देया याम्पे शोध्पा सौम्पे मूलं घुदलकर्ण:

[35] त्रिज्पावृत्तिविशोवोक्षश्रु । तिनिहतो विभाजितो वृत्त्पा

फलवियुगुदत्क्समेतोक्षश्रुतिरितरद्युदलकर्ण: [36] घुज्पांत्पाघातत्रिगुणकृतिविशेषोक्षकर्णसंगुणित: घुज्पायुतिहृद्वा श्रुतिहृद्वाक्षश्रुतिराप्पोकुर्धुदलकर्णः 1. The manuscript text of 36(c-d) may be reconstructed also as द्युज्यान्त्याहतिहृद्वाक्षश्रुतिराभ्यामुक्तवद्द्युदलकर्ण: ॥