पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/210

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 9} द्युदलभादिविधिः 185 कुञ्ज्यान्त्याधातहतोऽक्षश्रवणचरत्रिभगुणघातो वा ।

द्युबलश्रुति:

कुजीवान्त्याघातश्चरदलत्रिगुणयोश्च ॥ ३७ ॥ तद्विवरमक्षकर्णप्रताडितं प्रथमघातह्रल्लब्ध्या । वियुगन्वितोऽक्षकर्णः प्राग्वद्द्युदले भवेत्कर्णः ॥ ३८ ॥ । त्रिज्याधृतिविश्लेषस्तद्योगहतोऽक्षकर्णसङ्गुणितः ॥ अग्राधृतिहतिहृत्फलपलभाविवरं द्युदलभा वा ॥ ३९ ॥ [धृत्यन्त्याद्यज्यानयनम्] सार्धरसाष्टभुज[२८६]घ्नी पलश्रुतिस्तद्धता त्रि[भ]ज्या च । धृत्या द्युज्यागुणयाऽन्त्यया ह्रते वा श्रुती फलगुणार्का:[१२] ॥ ४० ॥ पलकर्णहतात्त्रिज्यावर्गाद्वा धृतिर्द्युखण्डकर्णेन । ब्रिज्याहतेन, स्वधृतिर्घाताताद्वा त्रिज्यया लब्धम् ॥ ४१ ॥ Text of Ms. A : [37] कुज्पांत्पाघ्नहृदक्षश्रवणाग्रात्रिगुणघातो बा घुदलश्रुतिः कुजीवांत्पाघातोग्रात्रिगुणयोश्च [38] तद्विवरमक्षकर्णप्रभाताडिततत्प्रथमघातहृल्लव्पा - वियुगन्वितः कर्णः प्राग्वद्युदले भवेत्कर्णः [39] त्रिज्पाधृतिविश्लेषस्तद्योगहतोक्षकर्णसंगुणितः अग्राधृतिहत्तिहृत्फलपलभोविवरं घुदलभा वा 40 सावरसाष्टभुजघ्ना पलश्रुतितद्धता त्रिज्पा च धृत्पा युज्पागुणयांत्पया हृते वा श्रुती फलयुजोर्का:

[41] पलकर्णहतात्रिज्पाववर्गाद्घातो घुखंडकर्णेन 

त्रिज्पाहतेन वधृतिघर्षांताद्वा त्रिज्पया लंब्द । Ms. B : 38 c वियुगव्नितः ।। 41 ।d लंब्द