पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/211

एतत् पृष्ठम् परिष्कृतम् अस्ति

186 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [ अधिकारः III घातो द्युज्याभक्त्तो वाऽन्त्याऽन्त्याहृद्युमौर्विका वा स्यात् । द्युज्यागुणिता वाऽन्त्या त्रिज्याभक्ता धृतिर्भवति ॥ ४२ ॥ पलकर्णहता त्रिगुणकृतिः कर्णघ्नद्युजीवयाप्ताऽन्त्या । कर्णान्त्याघातहृता लब्धा द्युज्या ततो भवति ॥ ४३ ॥ द्युगुणत्रि[गु]णान्तरघ्नाऽन्त्या त्रिज्याहृत्फलोनिता स्वधृतिः ॥ कुगुणोनचरगुणगुणाऽन्त्या चरगुणहृत्फलोनिता [स्व]धृतिः ॥ ४४ ॥ [द्युदला]|द्विलोमजीवाऽधिकक्रमज्याधिकाऽथवाऽन्त्या स्यात् । धृतिरथवा चरजीवागुणिता कुञ्ज्योद्धृता वाऽन्त्या ॥ ४५ ॥ [स्थितिविशेषाः]] सौम्या [यत्राक्ष]समा क्रान्तिस्तत्र द्युखण्डदृग्ज्या नास्ति] ॥

[ना] त्रिज्या च, कुजस्थे दृग्ज्या त्रिज्यैव, नरो [नास्ति] ॥ ४६ ॥

Text of Ms. A : [42] घातो द्युज्पाभत्तो वांताह्रद्युमौर्विका वा स्पात् कुज्पागुणिता वात्पा ग्रज्पाभत्का धृति - - ति

{43] पलकर्णहतत्रिगुणकृतेर्कर्णघ्नद्युजीवयाप्त्पात्पा

कर्णान्त्पाघातहृता लव्द घुज्पा ततो भवति ।

[44] घुगुणत्रि - णांतरजीवाघांत्पा त्रिज्पाहृत्फलोनिता वधृतिः

वा कुगुणचरणगुणगुणांत्पा चरगुणहत्फलोनिता धृतिः ॥

[45] --- द्विलोर्मजीवाधिकाक्रमज्पाधिकाथवात्पा स्पात् । धृतिरथवा वरजीवागुणिता कुञ्ज्पोद्धृता वांत्पा
[46] सौम्पा "*" " समः क्रांतिस्तत्र घुखंडदृग्ज्पोना 

त्रिज्पा च कुजस्छे दृग्ज्पा त्रिज्पैव नरो Ms. B : 42e ०वांत्या° 45 c चरजीवागुणिता