पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/213

एतत् पृष्ठम् परिष्कृतम् अस्ति

10. इष्टच्छायाविधिः [नतोन्नतकालौ} द्युदलाकान्त:का[लो] नतोऽर्ककुजान्तरुन्नतो ज्ञेयः । [उन्नतवियु]]ग्दिनार्धं [नत]न्नतोनं समुन्नतकम् ॥ १ ॥ [ उन्नतज्या]

चरदलवियुतसमेतात्समुन्नतात् सौम्ययाम्ययोर्जीवा ।
उन्नतजीवा [जीवा] यथा कलाभ्यस्तथासुभ्यः ॥ २ ॥

{स्वान्त्या ] सा चरदलगुणयुक्ता सौम्ये याम्ये विश्वजिता स्वान्त्या ।

अन्त्या नतोत्क्रमज्याविश्वजिता [वा] भवेत्स्वान्त्या ॥ ३ ॥

[ स्वधृतिः ततश्शङ्कुः] द्युज्याधुतिकुज्याभिर्निहता स्वान्त्या पृथक्पृथग्भक्ता । त्रिज्यान्त्याचरजीवाभिराप्तयस्स्वधृतिसंज्ञास्स्युः ॥ ४ ॥ Text of Ms. A : [1] घुदलाकात:का "ततोर्कभुजांतरुततो ज्ञेय

--- --- घिनाव न्नतोनं समुन्नतकं
[2] चरदलविघुतसमेत्तात्समुन्नतात्सौम्पयाम्पयो जीवा

उन्नतजीवा यथा कलाभ्पस्तथासुम्पः

[3] सा चरदलगुणयुक्ता सौम्पे याम्पे विवजिता स्वाघा

अंत्पेनन्तोस्क्रमज्पाविवर्जिता भवेत्स्वांत्पा

[4] द्युज्पाधृतिकुज्पाभिनिर्हता स्वोत्पा पृथक्पृथग्रक्वा ।

त्निन्पांत्पाचरजीवाभिराप्तयस्स्वधृतिसंज्ञास्स्पुः Ms. B: 1 b Pन्नतो 2 a ०समेत्रान्समुन्नता° 2 b °न्सोम्पयो 2c पथा 3 d Pविवजिता