पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/216

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] इष्टच्छायाविधि: 191 अन्त्ये च द्युदलेतरे विवरोनत्रिज्यया हते ते वा। व्यासार्धहते लब्धी द्युदलनराभीष्टशड्कू स्तः ॥ १४ ॥ विवरोनत्रिज्याघ्ना स्वान्त्योनान्त्या त्रिभज्यया भक्ता ।

फलवियुतो मध्यनरोऽभीष्ट[नरः फल]युतो मध्यः ॥ १५ ॥

[दिनार्धेष्टछायाकर्णौ ] त्रिज्योन्नतगुणविवरं स्वान्त्याहृद्द्युदलकर्णसङ्गुणितम् । तद्युग्द्युदलश्रवणोऽभीष्टोऽभीष्टो वियुग्द्युदलजो वा ॥ १६ ॥ तिथि[१५}गुणिता द्युद[ल]हता समुन्नतज्याऽनुपातजीवा स्यात् । स्थूलाऽन्त्याहृत्। स्वान्त्या त्रिज्यागुणिता फलं स्पष्टा ॥ १७ ॥ अनुपातज्यागुणितो द्युदलनरस्त्रिज्यया हतोऽभीष्टः ।

त्रिज्याघ्नः खश्रवणोऽनुपातहृत्त्वभीष्टकर्णः स्यात् ॥ १८ ॥

Text of Ms. A : [14] अंत्येवं द्युदलनरो विवरोनत्रिज्पया हते ते वा व्यासार्धहते लव्दी द्युदलनंराभीष्टशंकू स्तः

[15] विवरोनत्रिन्पा । घ्नास्वांत्पोनांत्पा त्रिभज्पया भक्ता

फलवियुतो मध्यनरोभीष्टो युतो मध्यः । [16] त्रिज्पानतगुणविवरं स्वांत्पाहृद्युदलकर्णसंगुणितं । तघुश्छदलश्रवणौभीष्टाभीष्टां वियुग्पुदलजौ वा

[17] तिथिगुणिता घुदहता ससुन्नतज्पानुपातजीवाभ्पां स्छूलांत्पाहृत्स्वांत्पा त्रिज्पागुणित्ता फलं स्पष्टर:
[18] अनुपातज्पागुणितौ घुदलनरस्त्रिज्पया हतोभीष्ट:
त्रिज्पघ्नः खश्रवणोनुपात्तहृत्त्वतीष्टस्स्पात्