पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/220

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] इष्टच्छायाविधि: 185

अन्त्या[या]श्चरार्धजीवा न विशुद्धयति चेद्विशेषचापेन ।
- हीनं चरार्धमथवा दिनगतशेषोन्नतः कालः ॥ ३४ ॥

[गुणहारगणितम्] गुणहारान्तरनिहते गुण्ये हारोद्धृते फल देयम्।

महति गुणके स्वहाराद्गृष्णके शोध्यं तथा लघुनि ॥ ३५ ॥

हारगुणयोगनिघ्ने गुण्ये हारेण भाजिते शोध्य:। [गुण्यस्तदाऽऽप्तमथवा]ऽन्त्यफलं भवेत्सुस्फुटं नित्यम् ॥ ३६ ॥ द्वित्र्यादिगुणघ्नोऽन्त्यो गुणको हारस्तथैव हारहतिः ॥ गुणगुण्यवर्गघाते हारकृतिहृते फलस्य पदम् ॥ ३७ । गुणगुण्यवधः फलहृद्धारो हारहृदवाप्तिराप्तिहतः ।

हारो वधो [वधो] गुणहृतो गुण्यो गुण्योद्धृतो गुणकः ॥ ३८ ॥

Text of Ms. A : [34] अंत्पाश्चरार्धजीवा न विशुद्धयति चेद्विशेषचापेन हीनं चरार्धमथवा दिनगतशेषोन्नंतः कालः ॥

[35] गुणहारांन्तरनिष्हते गुण्पे हारोद्धृते फलं देयं ।

महति गुणके खहाराद्गुणके शोध्पं तथा लग्रनि

[36] हारगुणयोगनिघ्ने गुणो हारेण भाजिते शोध्प:
                 अंत्पफले भवेत्सुस्फुटं नित्पं ।
[37] द्वित्रांत्पगुणांत्पौ गुणको हारस्तथैव हारहतिः

गुणगुण्पवर्गघातैहारवर्तिहृते फलस्प पदं [38] गुणगुण्पवधः पलहृद्धारो हारहृदवाप्तिराप्तिहतः हारो वधो गुणहृते गुण्पो गुण्पोद्घृतो गुणकः ।

                  इष्टश्छायाविधिर्दप्पमः । ।

Ms. B : 35 ० स्वहाराद्गुणके 36 d अंत्यफलं