पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/249

एतत् पृष्ठम् परिष्कृतम् अस्ति

224 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III विषुवद्युतिवित्त्वनेकधा लम्बज्याक्षगुणौ प्रसाधयेत् । द्यु[द]लद्युतिसूर्यविच्च यः स्वाक्षांशान् कथ[ये]त् स तन्त्रवित् ॥ ५ ॥ द्यु[ज्या]पमज्याचरमौर्विकाग्राकुज्यादिकाभ्यो बहुधा मिथस्ताः । करोति मध्याह्नतमारिजाभां बहुप्रकारं गणकाग्रणीस्स: ॥ ६। समयाम्योत्तरोद्भवाभीष्टस्वविदिङ्नरांश्च यो वेत्ति । एकप्रकारजानिह मद्विहितादन्यतस्स गणकोऽस्ति ॥ ७ ॥ इष्टभां च सममण्डलप्रभां कोणभां च बहुधा करोति यः ॥

ताभ्य एव बहुधाऽर्कमानयेत् कालमिष्टमथवा स तन्त्रवित् ॥ ८ ॥

चरखण्डपलांशविद्रविं कुर्यादिष्टचरार्धतोऽक्षभाम् । स्वपलद्युतितश्चरार्धकं त्रिप्रश्नोक्त्तमवैति स स्फुटम् ॥ ९ ॥ Text of Ms. A :

[5] विषुवद्द्युतिवित्वनेकधा लम्छज्पाक्षगुणौ प्रसाधयेद्
द्युल । द्युतिसूर्यविध्पयः । स्वाक्षांसान्कथत्स तंत्रवित्
[6] द्युसमृज्या चरमौर्विकाग्रा कुज्पादिकायो वहुधा मिथस्ता:

करोति मध्याह्नतमादाभा वहुप्रकारं गणकाग्रणीस्म: ।

[7] समयाम्पातुरभ्पुजाभीष्टस्थविदिङ्नराश्च यो वेत्ति ।

पकप्रकारजानिह मद्विहितादन्पतस्म गणकोमे ।

[8] इष्टभां च सममण्डलभां च कोणभां व वहुधा करोति यः

ताल्प पच वहुधार्कमानपेत्कालमिष्टमथवा स तंत्रवित् ।

[91 चरखण्डयलांशविद्रविं कुर्यादिष्ठचरावतौक्षभम् ।

स्वयलद्युतितच्चरार्धकं त्रिप्रस्तोक्रमवति स स्फुटाम् । Ms. B: 7 a °तुरभ्फजा° d1 °प्रस्तोक्त्त°