पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/253

एतत् पृष्ठम् परिष्कृतम् अस्ति

228 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III मेषान्ते स्थाणुदिक्स्थोऽभ्युदयति हरिजे कथ्यतामक्षमानं वीणाभूत्प्रान्तगो वा द्रुतकनकनिभो वा वृषान्ते विवेच्यम् । वह्नयाशायां तुलान्ते क्षितिजवलयगः कीदृशेऽक्षेऽभ्युदेति

चापान्ते वृश्चिकान्ते हरितहरिरथो बूहि गोलोपपत्त्या ॥ २५।।

हरिजवलये वीक्ष्याभ्यस्तं भवाम्बुधिसम्प्लवं कनककलशाकारं बिम्बं रवेर्ध्रुवतारकम् ।

कथयति ध्वान्तारातिं युगस्य च यद्गतं
पटुतरमतेः पादौ तस्य प्रणौमि समाहितः ॥ २६ ॥

द्वादश[१२]ड्गुलमिते भुजकोटी [अग्निगे दिनकरे] पलभागाः ।

यत्र सप्तयमला [ २७] वद तस्मिंस्तूर्णमुष्णकिरणं यदि वेत्सि ॥ २७ ॥

षट्ट्कृतिः [३६] पललवाः समवृत्ते तिग्मगोविषयवर्ग[२५]मिता भा । यत्र यत्र नलिनीवनबन्धुं बूहि वेत्सि यदि तन्त्रपयोधिम् ॥ २८ ॥ Text of Ms. A : [25] मेषेन्ते स्पाणुदित्स्थोभ्पुदयति हरि । जे क्वाद्यत्तामक्षयानं वीणानृत्प्रान्तगो वा द्रुतकनकनिभौ वा वृषान्ते विवकाम्। वह्नत्याशायान्तुलान्ते क्षितिजलवलयगः कीदृशेक्षेभ्पु देति वायान्त वृश्चिकान्ते हरितहरिररप्पो ब्रूहि गोलोययत्त्पा 26] हरिजवलये वीक्ष्याभ्पन्तं भवांबुधिसंप्लवं

कनककलशाकारं छिंचं रवेर्ध्रुवकारकम् ।
कथयत्ति ध्वान्तारातिं युगास्प च यद्गतं 

वटुतरमतेः यादौ तस्प प्रणौरम समाहितः ।

[27] द्वादशगुलयिते भुजकोटी रक्षमं यलभायाः

पत्र सप्तियमला वद्व तस्मिंस्तूर्णमुष्णकिरणं यदि वेत्सि [28] षट्कृतिः यललवास्समवृत्ते तिग्मगोविषमवर्गमिता भा यत्र तत्र तलिनीवनछंधु बूहि वेत्सि पदि तत्रययोधिम् ।

Ms. B: 25 b हुतकनक” 28 b. तिम्मगोविषम