पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/254

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 15] स्फुटः प्रश्नाध्यायः 229 खाभ्रवेदनयना [ २४००] नतासवः तिग्मगौ च सममण्डलस्थिते ॥ भाङ्गुलानि नव [९] यत्र त[त्र] मे प्रोच्यतां पलदिवाकरौ क्रमात्। २९ ॥ वल्लकीभूदवसानमागतः कुङ्कुमारुणरुचिर्गभस्तिमान् ।

नास्तमेति पलशिञ्जिनीं जनाः कीर्तयन्ति कियतीं वदाचिरात् ॥ ३० ॥

यत्र वेददहनाः [३४] पलांशकाः तिग्मगौ च मिथुनान्तसंस्थिते ॥ वह्निपूर्वदिशि मध्यगे रवौ तत्र शङ्कुमितिमुच्यतां बुधाः ॥ ३१ ॥ यत्र शून्यतुरगाः [७०] पलांशकाः क्वोदयं ब्रजति तत्र भानुमान् ॥ केन वाऽस्तमुपयात्यनेहसा कीदृशश्च सविता प्रचिन्त्यताम् ॥ ३२ ॥ सकृदुद्गत एव भानुमान् दृश्योऽह्नां सदल शतं [१५०I यदा। कियती पलशिञ्जिनी तदा किं भुक्तं रविणा वदाशु नः ॥ ३३ ॥ क्रान्त्यक्षभागैः कुरुते विना यो हिमाहिमाशोर्ग्रहणप्रभेदान् । सिद्धान्तमस्मविहितं विहाय पादौ प्रणौम्यस्य सुचारुबुद्धेः ॥ ३४ ॥ Text of Ms. A :

[29] स्वाभ्रवेदलयला तानसुवस्तिग्मव समण्डलस्थिते

भांगुलानि नव यत्र त मे प्रांच्पतां पलदिवाकरौ क्रमात्।

[30] बल्लकीभृदवसानमागतः कुकुमारुणरुचिर्गभस्तिमात्

नास्तमेति यलशिञ्जिनीं जनाः कीर्तपन्ति कियतीं वदाविरात्। [31] यत्र वेददहृनाः यलांशकास्तिग्मगौ च मिथुनान्तसंस्घिते वहिपूर्वदिशि मध्यगे रवौ तत्र शेकुमितिमुच्पतां बुधाः

[32] पत्र शुन्पतुरगाः यलांशका क्वोदयं व्रजति तत्र भानुमान्

केन वास्तमुयायात्पनेहसा कीदृशष्व सविता घविन्त्पताम्। [33] सकृदुद्गत पव भानुमां दृश्पोह्नां सदल शतं पदा कियतीं पलशिब्जिनीं तदा कि भुक्त रविणा वदाशु नः ।

[34] क्रांत्पक्षभागैः कुरुते विन यो हिमादिमांछोग्रहणेप्रभेद

सिद्धान्तमस्मद्विहितं विहाप यादौ प्रणौम्पस्प सुचारुवृद्धे:

Ms. B: 31 d बुधा: