पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/256

एतत् पृष्ठम् परिष्कृतम् अस्ति

IV. चन्द्रग्रहणाधिकारः [उपोद्घातः] प्रत्ययो जगति सर्वजनीनः शीतगूष्णकरयोर्ग्रहयोः स्यात् ॥ वच्म्यतः स्फुटमहं शिशिरांशोः प्रग्रहाद्यखिलमेव समासात् ॥ १ ॥ [ग्रहाणा श्रुत्यानयनम्] कक्ष्याऽयुत[१००००]घ्ना रदधीद्विकाङ्ग[६२८३२]विभाजिता स्युः श्रुतियोजनानि । व्योम्नोऽथवा तत्त्वरस[६२५]घ्नवृत्ताद्भगोऽग्नि[ ३९२७]भक्तात् स्वक[श्रुत्यवाप्तिः] ॥ २ ॥ [रविचन्द्रयोः श्रुत्यानयनम्]

खरसै[६०]विभजेदुडुश्रुतिं कर्णः स्यादहिमांशुमालिनः ॥ 

अथवा दशभिः [१०] समाहतं व्यासार्धं शशलां[छ]नश्रुतिः ॥ ३ ॥ इतरेतरकक्ष्यया हतौ कर्णौ' वा स्वककक्ष्ययोद्धृतौ । दिनरात्रिपयोर्निशीथिनीदिनभर्त्रो: श्रवणौ। क्रमादिह । ४ ।। Text of Ms. A :

[1] प्रत्पयो जगति सर्वजनीरश्वीतगुष्णकरयोर्ग्रहणे स्पात् ।

वक्पतः स्फुटमहृं शिशिरांशोः प्रग्राह्याघाखिलमेव समासात्

[2] कक्ष्पायुतघ्ना रदधीद्विकोगो। विभाजिताः स्फु: श्चुतियोजनानि

व्पोम्रोथवा तत्वरसघ्नवृत्ताद्भागोग्निनिघ्नस्वककक्ष्पयाप्तम् ।

[3] खरसैर्विभजेदुर्तश्रुतिं कर्णः स्पादहिमांशुमालिनः ।

अथवा दशनिस्समाहतं य्पासार्धं शशलांनश्रुतिः [4] इतरेतरवक्ष्पया हतौ कर्णौ वा स्वकाकक्ष्ययोद्धृतौ दिनरात्रिययोनिशीथिनीदिनमर्त्रों: श्रवणौ। क्रमादिह । Ms. B : 1 d प्रग्राह्याद्या 2 c तत्त्वरसघ्नo