पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/257

एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ वटेश्वरसिद्धान्ते चन्द्रग्रहणाधिकारे [अधिकार : IV [रविचन्द्रयोः श्रुतियोजनानि ] इषुभुजङ्गशराङ्कशराब्धयः [४५९५८५] श्रुतिरशीतकरस्य निशापतेः । नगतुरङ्गगुणाम्बुधिवह्मयो [३४३७७] हावनिखेचरयोविबरं च तत्।। ५ । [रविचन्द्रयोः स्फुटकर्णौ' ] स्वाविशेषकलिकाश्रवणघ्नं व्यासखण्डविहतं स्फुटमाहुः । मध्यभुक्तिनिहतः श्रवणो वा स्पष्टयाऽथ विहृतो निजभुक्त्या । ६ । स्पष्टकर्ण इह सूरिभिरुक्तो ध्वान्तशत्रुरजनीकरयोर्वा । [रविचन्द्रयोः बिम्बयोजनानि] द्वीन्दुतोयधिकृता [४४१२] रविबिम्बं व्योमवह्निदहनाः [३३०] शिशिरांशोः ॥ ७ ॥ [भूभादैर्ध्यं तमसः मानञ्च।]

भास्करश्रुतिरिलामितिनिघ्ना भूनभानुभजिता द्युतिरुर्व्याः ।

सेन्दुकर्णरहिता कुमितिघ्ना भोद्धृता च तमसः खलु मानम् ॥ ८ ॥ वेनकर्णहृदिलार्कविशेषश्चन्द्रकर्णनिहतो विफला भूः ॥ ९ ॥ Text of Ms. A :

[5] इषुलभुजंघ्नशतांकशराध्वयः श्रुतिरशीतकरस्प निशायतेः नगतुरंगमगणाम्छुधिवह्नयो ह्यवनिखेटरपोर्विवरं च तत् ।
[6] स्वाधिशेषकालिकाश्रयणघ्नं व्यासखण्डविहृतं स्फुटमाहुः

मध्यभुक्तिनिहितः श्रवणो वा स्पष्टयाथ विहृतो निजभुक्तया

[7] स्पष्टकर्ण इह सूरिभिरुक्तो ध्वान्तोशत्तूरजनीकरयोर्व्वा

द्वीन्दुतायविकृता रविविंर्छ व्योमवह्निदाहनाश्चिशिरांशो [8] भास्करश्रुतिरिलायितिनिघ्ना भूनभानुभाजिता द्युतिरुर्व्पो स्सेंदुकर्णरहिता कुपितौघ्री स्वोद्घृता व तमसः स्वलु मानम् ॥ [9] वेनकर्णहृदिलार्कविशेषश्चंद्रकर्णनिहतो विफला भू: Ms. R: 7 c °विंछं