पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/259

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३४ वटेश्वरसिद्धान्ते चन्द्रग्रहणाधिकारे अधिकार: IV दृग्[२]गुणा तिथि[१५Jहृता विधोर्गतिर्भूपयोधि[४१]गुणिता त्रिरुद्व[११३]हृत्॥

उष्णगोविवरमाप्तयोस्तमोमानमिष्टमथवा कलात्मकम् ॥ १५ ॥

तत्त्वानि [ २५] लिप्ता विकलास्तुरङ्गा [७] रवेविधोरक्षदिशो [१०५] जिनाख्यः [२४] । त्रिज्याहतास्ता मृदुकर्णभक्ताः

फलान्तरं वा तमसः प्रमाणम् ॥ १६ ॥
निजभुक्तिफलान्तराहता भुक्त्या मध्यमया स्वया हृताः ।
गतिवत् स्वमृणं फलं स्वकं तास्वेवान्तरकं तमोमितिः ॥ १७ ॥ अथवा स्फुटभुक्तिताडिता भक्ता मध्यमयाऽन्तरं तमः ॥

त्रिगुणः सुर[३३]ताडितोऽथवा सूर्येन्द्वोमृदुकर्णहृन्मिती ॥ १८ ॥ [ शशिविक्षेपानयनम्} तत्कालपातसहितात्समलिप्तचन्द्रदोर्ज्या खमै[२७०Jरभिहतां विभजेत् त्रिमौर्व्या। सौम्यः क्रियादभिहितस्त्वितरश्च जूकाद्विक्षेपकः शिशिरगोः कलिकादिकः स्यात् ॥ १९ ॥ Text of Ms. A : [15] दृगुणा तिथिहृता विधोर्गतिभूयेपाधिगुणिता त्रिरुद्रहृ दुप्णगोर्विवरमाप्तयोस्तमोमानमिष्टमथवा कलात्मकम्

[16] तत्वानि लिप्ता विकलास्तुरंगा रविर्विधोरक्षंदिशो जिनाख्पाः त्रिज्पातितास्ता मृदुकणभक्ताः फलान्तरं वा तमसः प्रमाणम् ॥ [17] निजभुक्तिफलान्तराहताद्भक्तया मध्पमया स्वया हृता

गतिवत्खेमृणां फलं स्वकं तास्वैवान्तरकं तमोमितिः [18] अथवा स्फुटभुक्तितात्रिता भक्ता मध्पमयान्तरं तमः त्रिगुणः सुररात्रितोधवा सूयेन्द्वोमृदुकर्णहन्मिती {19] तत्कालयातमहितात्समलिप्तवंद्वघोर्ज्पा खभैरभिहतां विभजेत्रिमौर्व्या सौम्पः क्रियाटभिहितास्त्वितरश्च जुकाद्विक्षेपकः शिशिरगौः कलिकादिकस्स्पात् ।