पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/26

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीवटेश्वरविरचित:

वटेशवर-सिद्धान्तः

I. मध्यगत्यधिकारः

1. भगणनिर्देशः

[ मङ्गलाचरणपूर्वकं ग्रंथवस्तुग्रंथकतृनिर्देशः ]

ब्रह्मावनीन्दुबुधशुक्रदिवाकरारजीवार्कसूनुभगुरून् पितरौ च नत्वा ।
ब्राह्मं ग्रहर्क्षगणितं महदत्तसूनुर्वक्ष्येऽखिलं स्फुटमतीव वटेश्वरोऽहम् ॥ १ ॥
कालक्रियागणितगोलमहागमार्थज्ञानप्रपञ्चविमलीकृतचारुधीभिः ।
दिव्यैः प्रदशितमिदं मुनिभिर्यदज्ञाः कुर्मो वयं तदवलोक्य गुणः स तेषाम् ॥ २ ॥
किन्तु स्वबुद्धिकृत[दृष्टिवि]भेद एषा कोक्त युग स्फुटमुपैति सदैकतो न ।
यस्मादतः सकलशास्त्र[विचारसारं] प्रोद्भास्यतेऽखिलमपास्य कुदृष्टिमार्गम् ॥ ३ ॥


Mss. used: Ms. A (No. 46608) and Ms. B (No. 45866) both of the Lucknow University Library, Lucknow.

Text of Ms. A :

॥ ॥ श्री कृष्णाय नमः ॥ ॥

[1] व्रह्मावनीन्दुबुधशुक्रदिवाकरारजीवार्कसूनुभगुरुन्पितरौ च नत्वा । व्राह्यं ग्रहर्क्षगणितं महृदत्तसूनुर्वक्ष्यैखिलं स्फुटमतीव वटेश्वरोहं ॥ १ ॥
[2] कालक्रियागणितगोलप्तहागमार्थज्ञानप्रपंचविमलीकृतचारुधीभिः दिव्पैः प्रदशितमिदं मुनिभिर्पदज्ञाः कुर्मो वपं तदवलोक्य गुणस्स तेषां ॥ २ ॥
[3] किंतु स्वबुद्धिकृतद * * * * * भेद एषां कोक्तं युगं स्फुटमुपैति सदैकतो ना यस्मादतस्सकलशा ' ' ' • • • स्त्रं प्रोद्भास्प खंदितमपास्तकुदष्टिमार्गं॥ ३ ॥

Variant Readings in Ms. B : l d वक्ष्ये 2 a °महागमार्थ० 3 b न