पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/261

एतत् पृष्ठम् परिष्कृतम् अस्ति

3. वटेश्वरसिद्धांतेचन्द्रग्रहणाधिकारे [अधिकार: IV मितियोगविशेषखण्डके ग्राह्यग्राहकयोः शरान्विते ।

रहिते च परस्पराहते मूलं वा स्थितिखण्डको [भवेत्] ॥ २५ ॥

[असकृत्कर्मणा तयोः स्थिरीकरणम्]

गत्यन्तरांशभजिते घटिकादिके ते स्थित्यर्धसड्गुणगतेवियदडग[६०]लब्धम् । प्रग्रासमुत्तिजखगेष्वृणवृद्धिसंज्ञं तत्क्षेपकात् स्थितिदलादसकृत् तु साध्ये ॥ २६ ॥ 

स्थित्यर्धलिप्ताभिहताः क्रमाद्या गत्यन्तररांशैः विभजेदमीषाम् । भुक्ती: फल प्रग्रहमोक्षकाले क्षयस्स्वमेष्वेवमनिश्चलत्वे। २७ ॥ [प्रग्रहमोक्षादिकालसाधनम्]

स्थित्यर्धनाडीवियुतः समेतः स्फुटः तिथिः प्रग्रहमोक्षकालौ ॥ विमर्दखण्डं च विधेयमेवं निमीलनोन्मीलनसिद्धिहेतोः ॥ २८ ॥ पर्वणः स्थितिदलेन पुरस्तात् प्रग्रहो भवति चोपरि मोक्षः ॥ प्राङ्निमीलनमथोपरि दृष्टं शीतगोरिह विमर्ददलेन ॥ २९ ।

Text of Ms. A : [25] मतयोगनिशेषस्वण्डको गाह्यग्रातकर्योः शरान्विते

रहितं च यथास्वमाहते मूलं वा स्छितिखण्डको ।
[26] मत्पंतरांशभजिते घटिकादिके ते स्थित्पवसद्गुणगते वियदंगलब्धमू
प्रग्रासमुक्तिजखगष्वृणमृद्विसंज्ञं तक्षेयकास्थितिदलाद्यसकृत्वसाम्पे । [27] स्थित्पछलिप्ताभिहताः क्रमाद्या गत्पन्तरांशै: विभजेदमीषाम् । भुक्ती: फलं प्रग्रहमाक्षकाले क्षयस्वमेष्वेवमनि । श्चलवे 

[28] स्वित्पवनाडीवियुतः समेतः स्फुट: तिथिः प्रग्रहमोक्षकालौ विमर्दस्वण्डं च विधेयमेवं निमीलनोन्मीलनमिधिहेताः ॥

[29] पर्वणस्स्थितिदलेन युरस्तात्प्रग्रहो भवति भुपरिमोक्षः 

प्राङ् निमीलनमथोपरि दृक्त' शीतगोरिह विमर्ददलेन Mis. B : 25 a गतिशेषखण्डको 25 c रहितं व 26 dतक्षेप०