पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/263

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३८ वटेश्वरसिद्धान्ते चन्द्रग्रहणाधिकारे [अधिकारः IV [इष्टग्रासात् कालसाधनम्] वीष्टग्रासं मितियुतिदलं तत्कृतिः क्षेपकृत्या हीना तस्याः पदमिह भुजो भुक्तिविश्लेषभागैः ॥ भक्तो नाडच्यस्तदवधिविधोः क्षेपकेनासकृत्ताः प्राक्पश्चात्तत्स्फुटतरतिथिर्यः प्रयातः स्थिरत्वम् ॥ ३५ ॥ [अक्ष-दिग्वलनसाधनम्।] प्रग्रहमध्यमग्रहणमोक्षनतासुविलोममौर्विकाः

स्वाक्षभया हताः स्वपलकर्णहृताः फलचापलिप्तिकाः ॥ प्रागपरार्धयोर्भवलयस्य समुत्तरदक्षिणेन ते 

भत्रितयाधिके क्रमगुणोऽभ्यधिकस्य युतस्त्रिभज्यया ॥ ३६ ॥ अग्राऽक्षजीवानृतलक्षितिज्याहता नतव्यस्तगुणाः क्रमाद्वा ॥ विभाजितास्तद्धृतिभत्रयज्यास्वधृत्युदग्राभिरुषन्ति दिग्ज्याः ॥ ३७ ॥ Text of Ms. A

[35] वीष्टग्रामम्मितियुतिदलं तत्कृतिः क्षोपकृत्पा

हीना तस्पाः यदमिह भुजो भुक्तिविश्लेषभागैः

भक्ता नाडयस्तदवधिविधोः क्षेपकेनासकृत्ता प्राक्पश्वात्तत्स्फुटतरतिथिर्ययथाताः स्थिरत्वे ।
[36] प्रग्रहमध्पमग्रहणमोक्षणतासुविमलोमौर्विकाः

स्वक्षभया हताः स्वयलकर्णहृताः फलवायलिप्तिकाः । प्रागपरार्धपोर्भकवयस्प समुत्तरक्षक्षिणोन्नते भर्त्रितयाधिके क्वमगुणोभ्पधिकस्पा युतस्त्रिभज्पया

[37] अग्राक्षजीवान्नृतलक्षितिज्पाहृता नतव्यस्तगुणाः क्रमाद्वा विभाज्प ताद्धुतिभत्रयज्पास्ववृत्पुदग्राभिरुषन्ति दिग्ज्पाः

Ms. B: 36 b फलवाप