पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/266

एतत् पृष्ठम् परिष्कृतम् अस्ति

 रविग्रहणाधिकारः 1. लम्बनविधिः [उपोद्घातः ] गणितगोलविदामपि विभ्रमः भृशमिनग्रहणेऽस्ति यतस्ततः ॥

गणितमत्र मयोदितमुत्तमं मतिमतामतिविस्मयकारि यत् ॥ १ ॥ मत्सरिणे परतन्त्रविदे वा देयमिदं शपथैरपि नैव ।
दास्यति चेत्सुकृतायुषनाशो भक्तिमते स्वसुताय च देयम् ॥ २ ॥

[लम्बनस्य सम्भवासम्भवम्] । वित्रिभलग्नसमे दिननाथे लम्बननाश इहाभ्यधिकोने । तद्भवति क्षयवृद्धिविधायि स्पष्टतिथेरसकृच्च सकृद्वा ॥ ३ ॥ [नतेः सम्भवासम्भवम्।] वित्रिभक्रान्तिभवांशगणैर्यदाऽक्षो न समो हि तदाऽवनतिर्भवेत् । Text of Ms. A :

[1] गणितगोलविदामपि विभ्रम भृशमिनग्रहणेत्र यतस्ततः

। ’ कतममत्र मयोदितमुक्तंम मतिमतामतिविस्मयकारि यत् । [2] मत्सरिणे। परतन्त्रविंदे वा यदेयमिदं शपथैरपि नैव दास्पति वेत्सुकृतायुभिनाशो भक्तिमते स्वसुताय च देयम् ।

[3] वित्रिभलग्नसमे दिननाथे लंवननाश इहाश्पधिकेन।

तद्भवति क्षयवृद्धिविधाचि स्पष्टतिथेरसकृच्च सकृद्वा । [4] त्रिभवतिनरुतांशकैर्म्मदक्षजः दिगिहा च नतोर्मवेत् । Ms.B: 1 तनुत्तभं 4कैर्य्यदक्षज: 4 bą नतोर्भत्