पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/276

एतत् पृष्ठम् परिष्कृतम् अस्ति

• 3, स्थितिविमदर्धविधिः [स्थितिविमर्दार्धादिसाधनम्]

[प्रथमविधिः]
स्थितिविमर्ददले शशिवच्च तद्वियुगुपेततिथेः करणागतात् ॥ असकृदत्र विलम्बननाडिका ग्रहणमोक्षतिथिस्तु परिस्फुटा ॥ १ ॥ प्रग्रासमध्यग्रहमोक्षकालविश्लेषतो ये स्थितिखण्डके स्तः। निमीलनोन्मीलनसिद्धिरेवं तन्मध्यविश्लेषविमर्दखण्डे ॥ २ ॥

[द्वितीयविधिः]

मध्यलम्बननिजान्तरयुक्तं तत्स्फुटं भवति खण्डकद्वयम् ।
लम्बनं महदनन्तरागतात् प्रग्रहोत्थमृणमल्पकं धनम् ॥ ३ ॥ मौक्षिकं धनमनल्पकं भवेदल्पकं ऋणमतोऽन्यथा यदा ॥
वजितं स्थितिदलं तदा स्वकं लम्बनान्तरफलैः स्फुटं भवेत् ॥ ४ ॥ स्वर्णयोर्यदि विपर्ययस्तदा लम्बनैक्यसहितं स्थितेर्दलम् ।

Text of Ms. A : [1] स्छितिविमर्ददले शशिवच्च तद्वियुगुयेततिथे।

करणागतात् असकृदत्र विलम्छननाडिका ग्रहणमोक्षतिथिस्तु परिस्फुठा ।
[2] प्राग्रासमध्पग्रहमेक्षकालविश्लेषन्द्रोषेस्थितिखण्डके स्ता

निमीलनोन्मीलनसिद्धिरेवं तत्कामध्पविश्लेषविमर्दखण्डे

[3] मध्पलम्छननिजान्तरयुक्तं तत्स्फुटे भवति मर्दद
लंवनं महदनंतरागता प्रग्रहोत्थमृणमल्पक धनम् 

[4] मुक्तिकं धनमनुल्पक भवेदल्प वृणमतौन्पथा यदि वर्जितं तिथिदलं तथा स्वंकं लवनांतरफलै: स्फुटं भवेत्। [5] स्वर्णयोर्यदि विपर्ययस्तदा लवनैक्यसहितं स्छितेर्दलम्। Ms. B : 1 ।d परिस्फुटा ॥ 2 b स्तः 4 c स्वकं 5 b लबनै°