पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/277

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V [इष्टकाले ग्रासानयनम्] 'प्रग्र[ह]स्थितिदलेष्टकालयोः वीष्टसंज्ञमनयोर्यदन्तरम् ॥ ५ ॥ मध्यमस्थितिदलेन ताडितं स्पष्टहृत्स्फुटतरं हि वीष्टकम्। स्पष्टभुक्तिविवरांशसङ्गुणं तद्[भु]जस्तदवधेविधोरिषुः ॥ ६ ॥ कोटिका कृतिसमासतस्तयोः मूलमत्र समुदीरिता श्रुतिः । [छाद्यछादकदलैक्यतस्त्यजेच्छिष्टमत्र भवतीष्टग्रासकम्] । ७ ।। [परिलेखार्थ चन्द्रबिम्बे संस्कारविशेषः]

स्फुटचन्द्रगतिः खखाग्नि[३००]भिर्लब्धाश्चन्द्रकलार्ध[त]स्त्यजेत् । ग्रहणे सवितुर्यतो रविस्तीक्ष्णः स्वच्छतनुर्निशाकरः ॥ ८ ॥ 

अत एव विमर्दखण्डके स्थितिखण्डे परिलेखपूर्व[क]म्।

अमुना विदधीत रात्रिपस्फुटबिम्बेन न शीतगुग्रहे। ९ ।

Text of Ms. A : मध्पमस्थितिदलेन ताडित स्पष्टहृत्स्पुटतरं हि वीष्टकं

[6] प्रग्रस्थितिदलेषुकालयो वीष्टसंज्ञामनयोर्यदन्तर

स्पष्टभुक्तिविवरांशसङ्गुणम् ॥ तत्जस्तदवधे विधोरिष्टः 7 कोटिका कृतिसमासतस्वपोः मूलमिष्टइषुटीरितः श्रुतिः ।

[8] स्फुटचद्रगते खसाग्रिमिः लव्वाचंद्रदलार्कस्त्पजेत् ॥
ग्रहृष्णे सवितुयतो रविस्तीक्ष्णः स्वछन्नतनुर्निशाकरः
[9] अत पव विमर्दखण्डके स्तितिखण्डे परिलेखयूर्वम्

अमुना विदधीत रात्रिपः स्फुटविम्छेन नरशीतगुग्रहे Ms. B : 6 a °योर्वी° 7 a °स्घपोः 7 b म्लल° 8 a ०ग्निभिः 9 b परिलेस्वयूर्वम् 1. Vss. 5(c-d) and 6 (a-b) of the manuscript text have been interchanged to bring them in the correct order.