पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/28

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 1]
3
भगणनिर्देशः



आक्षं पलं षडसवो घटिका पलानां
षष्ट्या दिनं च घटिकाः खलु षष्टिरह्नाम् ॥
मासः खवह्नि[ ३०]भिरथाब्दमिना [१२] हतः [सः
क्षेत्र च] कालसदृशावयव विनासुम्1 ॥ ८ ॥

[ ब्रह्मणः आयुपरिमाणम् ]

दन्ताब्धयोऽयुतहता [४३२००००] युगमर्क[वर्षा दस्राद्रयो ७२]|युगगणा मनुरेक उत्तः ।
कल्पश्तुचर्दशमनुर्द्युनिशं च तौ द्वौ कस्य स्ववर्षशतमत्र तदायुरुक्त्तम् ॥ ९ ॥

[ शकारम्भे ब्रह्मणः आयु: ]

कजन्मनोऽष्टौ सदलाः समा ययुस्तथाऽर्धमासो मनवो दिनस्य षट् ॥ युगात्रिवृन्दं [२७] सदृशाङघ्रयस्त्रयः कलेर्नवागैकगुणाः [ ३१७९] शकावधेः ॥ १० ॥

[ग्रहाणां युगभगणाः]

खाभ्रखाभ्रदशनाब्धयो [४३२००००] युगे भार्गवेन्दुसुतसूर्यपर्ययाः । शीघ्रतुङ्गभगणाः प्रकीतिताः सूर्यसूनुसुरपूजितासृजाम् ॥ ११ ॥


Text of Ms. A :

[8] आक्षं पलं षडसवो घटिका पलानां षष्ट्या दिनं च घटिका खलु षष्टिमहं ।

मासः खवह्निभिरथाब्दमिनाहत • • • • • • • कालसदृशावयवं विनासु ॥ ८ ॥

[9] दंताव्धयो युतहता युगमर्क • • • • • • * * * युगगुणा मनुरेक उक्तः ।

कल्पश्चतुर्दशमनुद्युनिशं च तौ द्वौ कस्प स्ववर्षशतमत्र तदायुरुक्तं ॥ ९ ॥

[10] कजन्मनोष्टौ सदलास्समाययुस्तथा चमासो मनवो दिनस्प षट् ।

युगात्रिवृदं सदृशांघ्रयस्त्रयः कलेर्नवार्गकगुणाः शकावधेः ॥ १० ॥

[11 ] खाभ्रखाभ्रदशनाब्धयो युगे भार्गवेन्दुसुतसूर्यपर्ययाः ।

शीघ्रतुंगभगणाः प्रकीतितास्सूर्यसूनुसुरपूजितासृजां ॥ ११ ॥

1. विनासु ( = असुपर्यन्तं विना)= पलाद्यं or विनाडिकाद्यं .. see BrSps, i. 6(c-d)
क्षेत्रविभागस्तृल्यः कालेन विनाडिकाद्येन ॥