पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/280

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 4] परिलेखविधि: 255 प्रसार्य याम्योत्तरयोदिशोरपि यथोक्तवन्मध्य[म]दिग्गुणस्ततः ॥ तदग्रसूत्रत्रितयं स्वकेन्द्रगं विरच्य तेम्यः स्थितिमण्डले क्रमात् ॥ ५ ॥ [मानैक्यार्धवृत्ते चन्द्रविक्षेपदानम् ।

क्षेपौ स्वकाष्ठाभिमुखौ प्रसार्यौ प्रग्रासमुक्तिप्रभवौ स्वसूत्रात्। ज्याबद्रवेर्व्यस्तदिशो हिमांशोः केन्द्रात्स्वसूत्रे ग्रहमध्यजातः ॥ ६ ॥

[स्पर्शमोक्षबिन्द्वोः मध्यग्रासमितेश्चानयनम्।]

ग्राहकप्रमितकर्कटेन तत् खण्डयेन्निजशराग्रतः क्रमात् । ग्राह्यबिम्बवलयं ततः स्फुटाः स्पर्शमुक्तियुतिमध्यमग्रहाः ॥ ७ ॥

स्पर्शमोक्षशरकेन्द्रसङ्गतं ग्राह्यबिम्बपरिधि स्पृशत्यलम् ।

यत्र तत्र कथितोऽथवा स्फुटः प्रग्रहो ग्रहबिमोक्षसम्भवः ॥ ८ ॥

व्यासार्ध वा मध्यविक्षेपहीनं स्वे दिक्सूत्रे दिङ्मुखाद्यत्र तस्मात् । खण्डच्यो ग्राह्यो ग्राहकाधयितेन मध्यग्रासः कर्कटेन स्फुटः स्यात् ॥ ९ ॥ Text of Ms. A : [5] प्रसार्य याम्पोत्तरयोर्दिशोरपि यथोक्तवन्मध्पदिगुणस्ततः उदग्रसूत्रत्रितयं खगेन्दुगं विरव्प तेन्पः स्थितिमण्डलक्रमात्

[6] क्षेपौ स्वकाष्टाभिमुखौ प्रसायौ प्रसायौ प्रगासमुक्तिप्रभावो खमूत्रात् 

ज्पावद्रवर्व्पस्वदिशो हिमाशोः केंद्रात्स्वसूत्रे ग्रहमध्पजातः ।

[7] याहकप्रमितकर्कटेन तत्स्वातापोनिजशराग्रतः कमात्

ग्राह्यविमवलयं तयतस्स्फुटास्पर्शमुक्तिमितिमघ्पमग्रहाः [8] स्पर्शमोक्षशरकेंद्रसङ्गतं ग्राह्यपरिधिं स्पृशत्पलम् यत्र तत्र कथिताथबा स्फुटः प्रग्रहे । ग्रहग्विमोक्षसंभवः ।

[9] व्पासाःर्ध वा मध्पविक्षेयहीनं स्वे दिक्सूत्रे दिङ्मुखाद्यत्र तस्मात्

खण्द्यो ग्राह्यो ग्रादकावायतेन मध्पग्रासः कर्कटेना स्फुटः स्पात् Ms. B: 5c स्वमूत्रात्, 5d firfith's fitt 6 a sists occurs only once. 6 b स्वमूत्रात् 8 b पाह्य° 8 dप्रपहे