पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/284

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 4] परिलेखविधि:259 [इष्टकाले ग्रासानयनम् ]

संछादकद्वयशरान्तरमिष्टनाडीनिघ्नं हृतं स्थितिदलेन फलाङ्गुलाः स्युः ॥
[ताञ्चाङ्गुलान् सुविधिना खलु ग्राहकस्य मार्गे प्रदाय गणयेन्निजग्रासमानम्] ॥ २४ ॥

[इष्टकाले चन्द्रविक्षेपसाधनम्] संछादकप्रथममध्यमयोर्विशेषः क्षिप्त्योरभीष्टघटिकागुणितो विभक्तः ॥ स्थित्यर्धकेन च युतो लघुको विहीनो ज्येष्ठः शरः शरमुशन्ति तमिष्टसंज्ञम् ॥ २५ ॥ [इष्टकर्णाद् इष्टघटिकासाधनम्] इ[ष्ट]कर्णगुणिते शरान्तरे मध्यमश्रुतिहृतोनयुक्तके । सायकः सकृदथाग्रसंज्ञको ऽस्मादभीष्टघटिकाः प्रसाधयेत् ॥ २६ ॥ [स्थित्यर्धनाडीभिः ग्राह्यग्राहकमानसाधनम्।] गत्यन्तरांशगुणितस्थितिखण्डनाडीवर्गो युतः शरकृतौ [च] पदं द्विनिघ्नम् ॥

मानान्तरोनसहितं दलितं प्रमाणे ग्राह्योनमावृतिरथावृतिहीनमन्यः ॥ २७ ॥

Text of Ms. A :

[24] संछादकादानिशरान्तरमिष्टनाडीनिघ्नं हारवक्थितिदलेन फलाङ्गुलै: स्पात्
[25] संछादके गत इषो प्रथममष्पमयोर्विशेष: क्षिप्त्पोरभीष्टघटिकागुणितो विभक्ता

स्तित्पर्धफलयुतो लघुको विहीनो जोष्टः शरः शरमुषन्ति तमिष्टसंज्ञम् ।

[26] इ - कर्णगुणिते शरान्तरं मध्पमेषुतिकृलोनयुकेन

सायको सकृदथाग्रसंज्ञकास्मादभीष्टघटिकाः प्रसाघयेत् । [27] गत्पन्तरांशगुणिताः णिताः स्थितिस्वण्डनात्द्यै वनीकृतः शरकृतौ पदम् । स्विनिघ्नम् । मानान्तरोरसहितं दलितं प्रमाणे ग्राद्योनमावृतिरथावृतिहीमन्पः