पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/291

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६६ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे (अधिकार ː5 षष्टे[६०]रपनीय तां भवेद्येया ते नखर्शल[७२०]सङ्गुणे । रविचन्द्रगमान्तरोद्धृते स्यातां स्पष्टतरे, [द्वितीयविधिः]

                 फलानि वा ॥ ५ ॥ 

प्रविभज्य गमान्तरांशर्कर्नाडयः पूर्ववदिन्दुवासरैः ॥

लब्धासु वियद्रसा[६०]हतान्नाडीषु त्ववमावशेषकम्। ६ ।

[तृतीयविधिः]

शशिवत्सरमासवासरैः द्युगणे सङ्गुणिते क्रमात् क्वहैः ॥
लब्धा तिथिरुतपूर्वका स्पष्टा प्रोक्तफलैर्यथोक्तवत् ॥ ७ ॥

[प्रकारान्तरेण रविचन्द्रयो: केन्द्रसाधनम्]

द्युगणे जिन[२४]वर्गताडिते वसुधीखाङ्गकृतो[४६०८८]निते हृते ॥ गोऽष्टाग्निखमूच्छंनै[ २१०३८९]र्भवेत् केन्द्रं वा भगणादिकं रवेः ॥ ८ ॥

खाज[११०]गुणे द्युगणे शशिकेन्दं क्वग्निखराम[३० ३१]हते भगणाद्यम् ॥ ९ ॥ मण्डलादि हिमतिग्मतेजसोः केन्द्रके कमलजोद्भवावधेः ॥ १० ॥ Text of Ms. A : [5] षष्टेरयनीय नां भवेद्येया ते नखशौलसंगुणे रविचंद्रगमान्तरोद्धृते स्पातां स्पष्टेतरे फलानि वा [6] प्रविभज्प ममान्तरांशकैर्नान्न्पः प्रर्ववदिन्दुवासरैः लद्वास्त्र वियुग्रसाहतान्नाडीषु त्ववमावशेषकम् । [7] शशिवछरसासवासरै: द्युमणे सङ्गुणिते क्रमात्क्वहै लंघातिथिरुक्तपूर्वका स्पष्टा प्रोक्तफलेर्यथोक्तवत्

[8] द्युगणे क्रियवर्ग:ताडिते वसुधीखाङ्गकृतोनिते हृते गोष्टाग्निखमूछनैर्भवेत्केन्द्रं वा भगणादिक रवेः । 

[9] खाजगुणे द्युगणे शशिकेन्द्रं क्वग्निखखमहते दिनोत्करे

[10] मण्डलादि हिमतिग्मतेजसः केन्द्रको कमलजोद्भवाद्रवेः

Ms. B: 5 cरविबंद्र 9 b क्वग्निखरामहते