पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/292

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 6] लघूपकरणविधिः 267 [सपातचन्द्रस्य युतिसंज्ञस्य साधनम्।] पातचन्द्रभगणैक्यताडिते भाजिते कुदिवसैरहर्गणे । पर्ययादि युतिसंज्ञकं स्फुटं चन्द्रकेन्द्रजफलेन चोक्तवत् ॥ ११ ॥ खखदन्तकृता[४३२००]हतेऽथवा नवषट्पञ्चशरागरुद्र[११७५५६९]हृत् । द्युगणे युतिरुक्तवत्स्फुटा त्रिरसाब्ध्यब्धि[४४६३]समास्वृणं कला।।12।। [युतिचन्द्रकेन्द्रयोः कलियुगादिक्षेपशोध्यौ] कलेर्गतादहर्गणाद्युतौ क्षिपेद् गृहाणि षट् [६] ।

विशोधयेद् गृहत्त्रयं [३] सुधामयूखकेन्द्रतः ॥ १३ ॥

[क्रान्तियोजनपिण्डिकाः] अजभूतबधो[११x ५]ऽष्टखेन्दवः [१०८] कृतबाणावनयो[१५४]ऽभ्रगोभुवः[१९०] गुणभूयमला: [२१३] कुदृग्भुजा [२२१] भदले योजनपिण्डिका भुजे । १४ ॥ [दृक्क्षेपसाधनम्।]

षड्[६jगुणितास्तु गतास्तिथिनाडयः स्वं सशिवं [११] रविकेन्द्रलवेषु ॥ तत्क्रमयोजनकं स्वनिरक्षस्थानयुगान्तरयोजनपिण्डे ॥ १५ ॥

Text of Ms. A : [11] याताचंद्रभगणैक्यताडिते भाजिते कुदिवसैरर्हगणे यर्यायादि युतिसंज्ञकं स्फुटं चंद्रकेंद्रजफलेन चोक्तवत्।

[12] खखदन्तेहृताहतोथवा नवषद्यवखराङ्गभद्रहृत् ।

द्युगणे पुतिभक्तवत्स्फुटा त्रिरसाव्ध्यग्निसमास्वृणं कला

[13] कलेर्गतादहर्गणाच्पुतौ क्षिपेद् गृहाणि षट्। 

विशोधये गृहन्त्रयं सुधामपूखकेद्रत:

[14] अजभूतवधोष्टस्वेन्देवः कृतवाणावनयोत्रगोभुवः

गुणिभूयमलाः कुदृभ्मुजा रुदलै योजनयिण्डिका भुजे।

[15] षड्गुणिता तदथा तिथिनाद्यः स्वन्ते सशिवं रविकेंद्रद्रलेषु ।

योजकानिरक्षस्थानयुगान्तरयोजनपिण्डे