पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/300

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः १६-२१] स्फुटदृक्कर्मसाधनम् २७५

ज्यौ पमौ गुणहतौ क्रमाद्ग्रहात्त्रिज्यया जिनलव[२४']ज्यया हृतौ ।

लब्धहीनगुणके यथोक्तवत् खेचरे भवति दृग्विलग्नकम् ॥ १६ ॥ ज्योतिषस्त्विषुगुणः परापमस्वेष्टकापमवियुग्गुणाहतः । व्यासभेदजिनभाग[२४°]शित्र्जिनीभ्यां हरे गदितवद् ग्रहे फलम् ॥ १७ ॥ [अक्षदृक्कर्मसाधनम्] विषुवत्प्रभया हतः शरो रवि[१२]भक्तो हद्युदयास्तगे ग्रहे । धनदिग्विशिखे क्षयं धनं स्वमृणं याम्यशरे दृशे खगे ।। १८ ॥ अथवेषुपलज्ययोर्वधाल्लम्बज्याप्तकला यथोक्तवत् ॥ १९ ॥ [स्फुटदृक्कर्मसाधनम्] ·

अपरं शरतो यदीरितं दृक्कर्म द्युचरे स्फुटं न तत् ॥ स्फुटदृग्गणितैक्यकृच्च यत् तद्दृक्कर्म विधास्यतेऽधुना ॥ २० ॥ द्युचरापमधन्वबाणयोदिक्साम्ये युतिरन्यथाऽन्तरम् ।
अपमस्फुट उक्त्तवत्ततो मध्याच्चापमतश्चरासवः ॥ २१ ॥

Text of Ms.A:

[16] ज्यौ यमौ गुणहतौ क्रमाद्ग्रहात्त्रिज्पा जिनलवज्पया हृतौ

लब्धहीतगुणके यथोक्तवत्स्वेचरे भवति दृग्विलकग्नम् [17] ज्योतितस्त्रिभगुणः परायमस्वेष्टकायमचियुद्गुणाहतौ व्यासभेदजिनभागशिज्जिनीत्पा हरेद्गदितवद्ग्रहे फलम् [18] विषुवत्प्रभयाहतः शरौ रविभक्तेत्पुदयास्तगे ग्रहे समदिग्विशिखे क्षये धनं स्वमृणं याम्पशरे दृशे। कुजे [19] अथवेशुपलज्पयोर्वधाल्लम्छज्पप्तकला यथोक्तवत् ।

[20] अयरं शरतो यदीरितं दृत्कूर्म द्युचरे स्फुटं न तम्

स्फुटदृग्गणितैक्यकृच्च यत् तत् ॥ दृत्कुर्म विधास्पतेधुना ।

[21] द्युचरायमुधत्ववाणयोदिंक्साम्पे द्युतिरत्पथान्तरम् ।

अयमस्फुट उक्त्तवत्ततो मध्पश्चायमतश्चरासवः

Ms. B: 16 c लगहीन 18 c क्षपे 20b दृक्कर्म 20 dदृक्कर्म