पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/308

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] चन्द्रश्रृङ्गोन्नतिः २८३ अपरेतरवर्गसंयुतेः पदमग्रेन्दुभुजाग्रमध्यगा ।

अग्राभुजवर्गयोगजं मूलं कर्ण इनेन्दुमध्यगः ॥ २१ ॥

वीनसोमदलदोर्गुणोऽथवा दृग्[२]गुणः श्रवणकोऽन्तरं तयोः ॥ तद्भुजाकृतिविशेषतः पदं कोटिरेणधरदोर्मुखान्तरम् ॥ २२ ॥ [सितसाधनम्।] वीनचन्द्रविपरीतशिञ्जिनी तज्ज्यया त्रिभगुणो युतः त्रिभात्। चन्द्रबिम्बदलसंगुणोद्धृतः त्रिज्यया सितमिति जगुर्दिवा ॥ २३ ॥ विरवीन्दुदलांशसंगुणं दलमिन्दोः शरवेद[४५]हृत्सितम् ॥ नवतेर्भदलाच्युतं निशि सन्ध्यायां सितयोगखण्डजम् ॥ २४ ॥ [परिलेखसूत्रसाधनम्।

[प्रथमविधिः] 

सितचन्द्रदलान्तरं हृतिस्तद्भक्तं शशिखण्डवर्गितम् ॥ फलयुग्घृतिरधिता भवेत्सूत्रं तत्परिलेखसंज्ञितम् ॥ २५ ॥ Text of Ms. A : [21] अपरेतरवर्गसंयुते. यादमग्रेन्दुभुजाग्रमध्पगा

अग्रभुजवर्गयोगजं मूलं कर्ण इनेन्दुमध्पग: 

[22] वीनसोमदलदोर्गुणो वा दृगुणो श्रवणकोन्तर तयोः तद्भुजाकृतिविशेषतः यदं कोटिरेणधरदोन्मुखान्नरम्

[23] वीनचंद्रविपरीतशिञ्जिनी त्रिज्पाया त्रिभगुणो युतं त्रिभाक् चंद्रविम्छदलसंगुणोकृतस्त्रिज्पया सितमितं जगुर्दिवा
[24] विरवीन्दुदलांशुसंगुणं दलमिन्दु: शरस्वेदहृत्सितम्

तवतेर्भदलाच्च्युतं निशि सध्यायां सितयोगस्वण्डजम् ।

[25] सितवंद्रजलान्तटं हृतिस्ततिस्तद्भक्त' शशिस्तण्डवर्गितम् । फलयुत्कृतिरन्विता भवेत्स्तुतं तत्परिलेखसंज्ञितम्