पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/31

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे



[ ज्ञशुक्रपातविषये विशेषः ]

स्वशीघ्रनीचोच्चकवृत्तपर्ययैः हृतावशिष्टाः खगपातपर्ययाः ॥
ज्ञशुक्रयोस्तच्चलकेन्द्रसंयुति वदन्ति पातावथवा मनीषिणः ॥ २० ॥

[ ग्रन्थकारजन्मकालः ग्रन्थनिर्माणकालश्च ]

शकेन्द्रकालाद्भुजशून्यकुञ्जरै[८०२]रभूदतीतैर्मम जन्म हायनैः ॥
अकारि राद्धान्तमितैः स्वजन्मनो मया जिना[२४]ब्दैर्द्युसदामनुग्रहात् ॥ २१ ॥

भगणनिर्देशः प्रथमः ॥




Text of Ms. A :
[20] स्वशीघ्रनीचोश्चकवृत्तपर्युयैः हृतावशिष्टाः खगपातपर्येयाः

ज्ञशुक्रयोस्तच्चलकेंद्रसंयुति वदंति पातानथवा मनीषिणः ॥। ॥

[21] शकेन्द्रकालाद्भूजशून्यकुंजरैरभूदतीतैर्मम जन्म हायनैः

अकारि राद्धांतसितैस्स्वजन्मनो मया जिनाब्दैर्द्युसदामनुग्रहात् ।। ।

भगणनिर्देश: । प्रथमः ॥ ॥