पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/313

एतत् पृष्ठम् परिष्कृतम् अस्ति

288 वटेश्वरसिद्धान्ते श्रृङ्गोन्नत्यधिकारे [अधिकार: VII सः पश्चिमाद् वलनवद्देयः कर्णानुगे भुजासूत्रे ॥

पश्चाद्धागाच्छुक्ल शुक्ले कृष्णेऽसित देयम् ॥ ४७ ॥ तद्याम्योत्तरवलयाग्रमीनयुगमध्यसूत्रयोः सङ्गात् ।
परिलेखः सितश्शृङ्गोन्नतिसिद्ध्यर्थं हरिणभर्तुः ॥ ४८ ॥

[श्रृङ्गोन्नतिः] -

दोदिशि नतं विशिखं समुन्नतं तिग्मतेजसः ककुभि ।

शुक्ले विम्बार्धसमे शशभृल्लाटीलला[टतट]तुल्यः। ४९ ॥ उन्नतमुदेति पूर्वं विषाणमस्तं समेति तत्पश्चात् ॥ अविकचकेतककोटौ मधुकरसङ्गजश्रियं दधानमिव । ५० । [चन्द्रस्य प्रथमकला]

स्मरकोदण्डलतेव प्रथमकला दृष्टिमेति तुहिनांशोः ।
विभ्रन्ती शुभ्राभासुभ्रूभ्रूविभ्रमाभ्रान्तिम् ॥ ५१ ।

परिलेखविधिः पञ्चमः [इति शृङ्गोन्नतिविधिः प्रथमः] Text of Ms. A : {47] सायश्चिमावलेनवछेषाः कणानुगे भुजासूत्रे यश्चाद्भागाच्छुक्लं शुक्ले कृष्णे सितं देयम्

[48] तद्याम्पोतुरवलनाग्रामीनयुगमध्पसूत्रयोः सङ्गात्

परिलेखा सितश्रृङ्गोन्नतिसाध्पर्ध हरिणधातु

[49] दोर्दिशि नतं विशिखं समुन्नतं तिम्मतेजस: ककुभि
शुक्ले विम्छार्धसमे शशभूल्लाटीललातुल्प: 

[50] उन्नतमुदेति यूर्वं विषाणयस्तं समेति तत्पश्चात् अविकचकेतुककोठोन्मधुकरसङ्ग”’श्रियं दधानमिव [51] स्मरकोदण्डतलेव प्रथकला दृष्त्क्वमेति तुहिनांशो:

विभ्रन्ती शुभ्राभासुधूधूविम्रमाम्रान्तिम् । ।

परिलेखविधि: पचमः । ।